situs togel toto togel togel terpercaya bandar togel bandar togel resmi daftar situs togel situs toto togel toto togel daftar situs slot pulsa slot 5000
situs togel toto togel togel terpercaya bandar togel bandar togel resmi daftar situs togel situs toto togel toto togel daftar situs slot pulsa slot 5000
Mahalakshmi Sahasranamavali - 1000 Names of Mahalakshmi Devi

Mahalakshmi Sahasranamavali – 1000 Names of Mahalakshmi Devi

Mahalakshmi Sahasranamavali is the 1000 names of Mahalakshmi Devi in Hindi, English, Tamil & Telegu.


Mahalakshmi Sahasranamavali in Hindi (श्री हनुमत्सहस्रनामावली)


अस्य श्रीमहालक्ष्मी सहस्रनामस्तोत्र महामन्त्रस्य श्रीमहाविष्णुर्भगवान् ऋषिः अनुष्टुप्छन्दः श्रीमहालक्ष्मीर्देवता श्रीं बीजं ह्रीं शक्तिः ह्रैं कीलकं श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥


ध्यानम्


पद्मानने पद्मकरे सर्वलोकैकपूजिते ।
सान्निध्यं कुरु मे चित्ते विष्णुवक्षःस्थलस्थिते ॥ १ ॥

भगवद्दक्षिणे पार्श्वे श्रियं देवीमवस्थिताम् ।
ईश्वरीं सर्वभूतानां जननीं सर्वदेहिनाम् ॥ २ ॥

चारुस्मितां चारुदतीं चारुनेत्राननभ्रुवम् ।
सुकपोलां सुकर्णाग्रन्यस्तमौक्तिककुण्डलाम् ॥ ३ ॥

सुकेशां चारुबिम्बोष्ठीं रत्नतुङ्गघनस्तनीम् ।
अलकाग्रैरलिनिभैरलङ्कृतमुखाम्बुजाम् ॥ ४ ॥

लसत्कनकसङ्काशां पीनसुन्दरकन्धराम् ।
निष्ककण्ठीं स्तनालम्बिमुक्ताहारविराजिताम् ॥ ५ ॥

नीलकुन्तलमध्यस्थमाणिक्यमकुटोज्ज्वलाम् ।
शुक्लमाल्याम्बरधरां तप्तहाटकवर्णिनीम् ॥ ६ ॥

अनन्यसुलभैस्तैस्तैर्गुणैः सौम्यमुखैर्निजैः ।
अनुरूपानवद्याङ्गीं हरेर्नित्यानपायिनीम् ॥ ७ ॥

अथ स्तोत्रम्

श्रीर्वासुदेवमहिषी पुम्प्रधानेश्वरेश्वरी ।
अचिन्त्यानन्तविभवा भावाभावविभाविनी ॥ १ ॥

अहम्भावात्मिका पद्मा शान्तानन्तचिदात्मिका ।
ब्रह्मभावं गता त्यक्तभेदा सर्वजगन्मयी ॥ २ ॥

षाड्गुण्यपूर्णा त्रय्यन्तरूपाऽऽत्मानपगामिनी ।
एकयोग्याऽशून्यभावाकृतिस्तेजः प्रभाविनी ॥ ३ ॥

भाव्यभावकभावाऽऽत्मभाव्या कामधुगाऽऽत्मभूः ।
भावाभावमयी दिव्या भेद्यभेदकभावनी ॥ ४ ॥

जगत्कुटुम्बिन्यखिलाधारा कामविजृम्भिणी ।
पञ्चकृत्यकरी पञ्चशक्तिमय्यात्मवल्लभा ॥ ५ ॥

भावाभावानुगा सर्वसम्मताऽऽत्मोपगूहिनी ।
अपृथक्चारिणी सौम्या सौम्यरूपव्यवस्थिता ॥ ६ ॥

आद्यन्तरहिता देवी भवभाव्यस्वरूपिणी ।
महाविभूतिः समतां गता ज्योतिर्गणेश्वरी ॥ ७ ॥

सर्वकार्यकरी धर्मस्वभावात्माऽग्रतः स्थिता ।
आज्ञासमविभक्ताङ्गी ज्ञानानन्दक्रियामयी ॥ ८ ॥

स्वातन्त्र्यरूपा देवोरःस्थिता तद्धर्मधर्मिणी ।
सर्वभूतेश्वरी सर्वभूतमाताऽऽत्ममोहिनी ॥ ९ ॥

सर्वाङ्गसुन्दरी सर्वव्यापिनी प्राप्तयोगिनी ।
विमुक्तिदायिनी भक्तिगम्या संसारतारिणी ॥ १० ॥

धर्मार्थसाधिनी व्योमनिलया व्योमविग्रहा ।
पञ्चव्योमपदी रक्षव्यावृतिः प्राप्यपूरिणी ॥ ११ ॥

आनन्दरूपा सर्वाप्तिशालिनी शक्तिनायिका ।
हिरण्यवर्णा हैरण्यप्राकारा हेममालिनी ॥ १२ ॥

प्रस्फुरत्ता भद्रहोमा वेशिनी रजतस्रजा ।
स्वाज्ञाकार्यमरा नित्यसुरभिर्व्योमचारिणी ॥ १३ ॥

योगक्षेमवहा सर्वसुलभेच्छाक्रियात्मिका ।
करुणाग्रानतमुखी कमलाक्षी शशिप्रभा ॥ १४ ॥

कल्याणदायिनी कल्या कलिकल्मषनाशिनी ।
प्रज्ञापरिमिताऽऽत्मानुरूपा सत्योपयाचिता ॥ १५ ॥

मनोज्ञेया ज्ञानगम्या नित्यमुक्तात्मसेविनी ।
कर्तृशक्तिः सुगहना भोक्तृशक्तिर्गुणप्रिया ॥ १६ ॥

ज्ञानशक्तिरनौपम्या निर्विकल्पा निरामया ।
अकलङ्काऽमृताधारा महाशक्तिर्विकासिनी ॥ १७ ॥

महामाया महानन्दा निःसङ्कल्पा निरामया ।
एकस्वरूपा त्रिविधा सङ्ख्यातीता निरञ्जना ॥ १८ ॥

आत्मसत्ता नित्यशुचिः परशक्तिः सुखोचिता ।
नित्यशान्ता निस्तरङ्गा निर्भिन्ना सर्वभेदिनी ॥ १९ ॥

असङ्कीर्णाऽविधेयात्मा निषेव्या सर्वपालिनी ।
निष्कामना सर्वरसाऽभेद्या सर्वार्थ साधिनी ॥ २० ॥

अनिर्देश्याऽपरिमिता निर्विकारा त्रिलक्षणा ।
भयङ्करी सिद्धिरूपाऽव्यक्ता सदसदाकृतिः ॥ २१ ॥

अप्रतर्क्याऽप्रतिहता नियन्त्री यन्त्रवाहिनी ।
हार्दमूर्तिर्महामूर्तिरव्यक्ता विश्वगोपिनी ॥ २२ ॥

वर्धमानाऽनवद्याङ्गी निरवद्या त्रिवर्गदा ।
अप्रमेयाऽक्रिया सूक्ष्मा परनिर्वाणदायिनी ॥ २३ ॥

अविगीता तन्त्रसिद्धा योगसिद्धाऽमरेश्वरी ।
विश्वसूतिस्तर्पयन्ती नित्यतृप्ता महौषधिः ॥ २४ ॥

शब्दाह्वया शब्दसहा कृतज्ञा कृतलक्षणा ।
त्रिवर्तिनी त्रिलोकस्था भूर्भुवःस्वरयोनिजा ॥ २५ ॥

अग्राह्याऽग्राहिकाऽनन्ताह्वया सर्वातिशायिनी ।
व्योमपद्मा कृतधुरा पूर्णकामा महेश्वरी ॥ २६ ॥

सुवाच्या वाचिका सत्यकथना सर्वपालिनी ।
लक्ष्यमाणा लक्षयन्ती जगज्ज्येष्ठा शुभावहा ॥ २७ ॥

जगत्प्रतिष्ठा भुवनभर्त्री गूढप्रभावती ।
क्रियायोगात्मिका मूर्तिः हृदब्जस्था महाक्रमा ॥ २८ ॥

परमद्यौः प्रथमजा परमाप्ता जगन्निधिः ।
आत्मानपायिनी तुल्यस्वरूपा समलक्षणा ॥ २९ ॥

तुल्यवृत्ता समवया मोदमाना खगध्वजा ।
प्रियचेष्टा तुल्यशीला वरदा कामरूपिणी ॥ ३० ॥

समग्रलक्षणाऽनन्ता तुल्यभूतिः सनातनी ।
महर्धिः सत्यसङ्कल्पा बह्वृचा परमेश्वरी ॥ ३१ ॥

जगन्माता सूत्रवती भूतधात्री यशस्विनी ।
महाभिलाषा सावित्री प्रधाना सर्वभासिनी ॥ ३२ ॥

नानावपुर्बहुभिदा सर्वज्ञा पुण्यकीर्तना ।
भूताश्रया हृषीकेश्वर्यशोका वाजिवाहिका ॥ ३३ ॥

ब्रह्मात्मिका पुण्यजनिः सत्यकामा समाधिभूः ।
हिरण्यगर्भा गम्भीरा गोधूलिः कमलासना ॥ ३४ ॥

जितक्रोधा कुमुदिनी वैजयन्ती मनोजवा ।
धनलक्ष्मीः स्वस्तिकरी राज्यलक्ष्मीर्महासती ॥ ३५ ॥

जयलक्ष्मीर्महागोष्ठी मघोनी माधवप्रिया ।
पद्मगर्भा वेदवती विविक्ता परमेष्ठिनी ॥ ३६ ॥

सुवर्णबिन्दुर्महती महायोगिप्रियाऽनघा ।
पद्मेस्थिता वेदमयी कुमुदा जयवाहिनी ॥ ३७ ॥

संहतिर्निर्मिता ज्योतिः नियतिर्विविधोत्सवा ।
रुद्रवन्द्या सिन्धुमती वेदमाता मधुव्रता ॥ ३८ ॥

विश्वम्भरा हैमवती समुद्रेच्छाविहारिणी ।
अनुकूला यज्ञवती शतकोटिः सुपेशला ॥ ३९ ॥

धर्मोदया धर्मसेव्या सुकुमारी सभावती ।
भीमा ब्रह्मस्तुता मध्यप्रभा देवर्षिवन्दिता ॥ ४० ॥

देवभोग्या महाभागा प्रतिज्ञा पूर्णशेवधिः ।
सुवर्णरुचिरप्रख्या भोगिनी भोगदायिनी ॥ ४१ ॥

वसुप्रदोत्तमवधूः गायत्री कमलोद्भवा ।
विद्वत्प्रिया पद्मचिह्ना वरिष्ठा कमलेक्षणा ॥ ४२ ॥

पद्मप्रिया सुप्रसन्ना प्रमोदा प्रियपार्श्वगा ।
विश्वभूषा कान्तिमती कृष्णा वीणारवोत्सुका ॥ ४३ ॥

रोचिष्करी स्वप्रकाशा शोभमानविहङ्गमा ।
देवाङ्कस्था परिणतिः कामवत्सा महामतिः ॥ ४४ ॥

इल्वलोत्पलनाभाऽधिशमनी वरवर्णिनी ।
स्वनिष्ठा पद्मनिलया सद्गतिः पद्मगन्धिनी ॥ ४५ ॥

पद्मवर्णा कामयोनिः चण्डिका चारुकोपना ।
रतिस्नुषा पद्मधरा पूज्या त्रैलोक्यमोहिनी ॥ ४६ ॥

नित्यकन्या बिन्दुमालिन्यक्षया सर्वमातृका ।
गन्धात्मिका सुरसिका दीप्तमूर्तिः सुमध्यमा ॥ ४७ ॥

पृथुश्रोणी सौम्यमुखी सुभगा विष्टरश्रुतिः ।
स्मितानना चारुदती निम्ननाभिर्महास्तनी ॥ ४८ ॥

स्निग्धवेणी भगवती सुकान्ता वामलोचना ।
पल्लवाङ्घ्रिः पद्ममनाः पद्मबोधा महाप्सराः ॥ ४९ ॥

विद्वत्प्रिया चारुहासा शुभदृष्टिः ककुद्मिनी ।
कम्बुग्रीवा सुजघना रक्तपाणिर्मनोरमा ॥ ५० ॥

पद्मिनी मन्दगमना चतुर्दंष्ट्रा चतुर्भुजा ।
शुभरेखा विलासभ्रूः शुकवाणी कलावती ॥ ५१ ॥

ऋजुनासा कलरवा वरारोहा तलोदरी ।
सन्ध्या बिम्बाधरा पूर्वभाषिणी स्त्रीसमाह्वया ॥ ५२ ॥

इक्षुचापा सुमशरा दिव्यभूषा मनोहरा ।
वासवी पाण्डरच्छत्रा करभोरुस्तिलोत्तमा ॥ ५३ ॥

सीमन्तिनी प्राणशक्तिर्विभीषण्यसुधारिणी ।
भद्रा जयावहा चन्द्रवदना कुटिलालका ॥ ५४ ॥

चित्राम्बरा चित्रगन्धा रत्नमौलिसमुज्ज्वला ।
दिव्यायुधा दिव्यमाल्या विशाखा चित्रवाहना ॥ ५५ ॥

अम्बिका सिन्धुतनया सुश्रोणिः सुमहासना ।
सामप्रिया नम्रिताङ्गी सर्वसेव्या वराङ्गना ॥ ५६ ॥

गन्धद्वारा दुराधर्षा नित्यपुष्टा करीषिणी ।
देवजुष्टाऽऽदित्यवर्णा दिव्यगन्धा सुहृत्तमा ॥ ५७ ॥

अनन्तरूपाऽनन्तस्था सर्वदानन्तसङ्गमा ।
यज्ञाशिनी महावृष्टिः सर्वपूज्या वषट्क्रिया ॥ ५८ ॥

योगप्रिया वियन्नाभिः अनन्तश्रीरतीन्द्रिया ।
योगिसेव्या सत्यरता योगमाया पुरातनी ॥ ५९ ॥

सर्वेश्वरी सुतरणिः शरण्या धर्मदेवता ।
सुतरा संवृतज्योतिः योगिनी योगसिद्धिदा ॥ ६० ॥

सृष्टिशक्तिर्द्योतमाना भूता मङ्गलदेवता ।
संहारशक्तिः प्रबला निरुपाधिः परावरा ॥ ६१ ॥

उत्तारिणी तारयन्ती शाश्वती समितिञ्जया ।
महाश्रीरजहत्कीर्तिः योगश्रीः सिद्धिसाधनी ॥ ६२ ॥

पुण्यश्रीः पुण्यनिलया ब्रह्मश्रीर्ब्राह्मणप्रिया ।
राजश्री राजकलिता फलश्रीः स्वर्गदायिनी ॥ ६३ ॥

देवश्रीरद्भुतकथा वेदश्रीः श्रुतिमार्गिणी ।
तमोपहाऽव्ययनिधिः लक्षणा हृदयङ्गमा ॥ ९४ ॥

मृतसञ्जीविनी शुभ्रा चन्द्रिका सर्वतोमुखी ।
सर्वोत्तमा मित्रविन्दा मैथिली प्रियदर्शना ॥ ६५ ॥

सत्यभामा वेदवेद्या सीता प्रणतपोषिणी ।
मूलप्रकृतिरीशाना शिवदा दीप्रदीपिनी ॥ ६६ ॥

अभिप्रिया स्वैरवृत्तिः रुक्मिणी सर्वसाक्षिणी ।
गान्धारिणी परगतिस्तत्त्वगर्भा भवाभवा ॥ ६७ ॥

अन्तर्वृत्तिर्महारुद्रा विष्णुदुर्गा महाबला ।
मदयन्ती लोकधारिण्यदृश्या सर्वनिष्कृतिः ॥ ६८ ॥

देवसेनाऽऽत्मबलदा वसुधा मुख्यमातृका ।
क्षीरधारा घृतमयी जुह्वती यज्ञदक्षिणा ॥ ६९ ॥

योगनिद्रा योगरता ब्रह्मचर्या दुरत्यया ।
सिंहपिञ्छा महादुर्गा जयन्ती खड्गधारिणी ॥ ७० ॥

सर्वार्तिनाशिनी हृष्टा सर्वेच्छापरिपूरिका ।
आर्या यशोदा वसुदा धर्मकामार्थमोक्षदा ॥ ७१ ॥

त्रिशूलिनी पद्मचिह्ना महाकालीन्दुमालिनी ।
एकवीरा भद्रकाली स्वानन्दिन्युल्लसद्गदा ॥ ७२ ॥

नारायणी जगत्पूरिण्युर्वरा द्रुहिणप्रसूः ।
यज्ञकामा लेलिहाना तीर्थकर्युग्रविक्रमा ॥ ७३ ॥

गरुत्मदुदयाऽत्युग्रा वाराही मातृभाषिणी ।
अश्वक्रान्ता रथक्रान्ता विष्णुक्रान्तोरुचारिणी ॥ ७४ ॥

वैरोचनी नारसिंही जीमूता शुभदेक्षणा ।
दीक्षाविदा विश्वशक्तिः बीजशक्तिः सुदर्शनी ॥ ७५ ॥

प्रतीता जगती वन्यधारिणी कलिनाशिनी ।
अयोध्याऽच्छिन्नसन्ताना महारत्ना सुखावहा ॥ ७६ ॥

राजवत्यप्रतिभया विनयित्री महाशना ।
अमृतस्यन्दिनी सीमा यज्ञगर्भा समेक्षणा ॥ ७७ ॥

आकूतिऋग्यजुस्सामघोषाऽऽरामवनोत्सुका ।
सोमपा माधवी नित्यकल्याणी कमलार्चिता ॥ ७८ ॥

योगारूढा स्वार्थजुष्टा वह्निवर्णा जितासुरा ।
यज्ञविद्या गुह्यविद्याऽध्यात्मविद्या कृतागमा ॥ ७९ ॥

आप्यायनी कलातीता सुमित्रा परभक्तिदा ।
काङ्क्षमाणा महामाया कोलकामाऽमरावती ॥ ८० ॥

सुवीर्या दुःस्वप्नहरा देवकी वसुदेवता ।
सौदामिनी मेघरथा दैत्यदानवमर्दिनी ॥ ८१ ॥

श्रेयस्करी चित्रलीलैकाकिनी रत्नपादुका ।
मनस्यमाना तुलसी रोगनाशिन्युरुप्रदा ॥ ८२ ॥

तेजस्विनी सुखज्वाला मन्दरेखाऽमृताशिनी ।
ब्रह्मिष्ठा वह्निशमनी जुषमाणा गुणात्यया ॥ ८३ ॥

कादम्बरी ब्रह्मरता विधात्र्युज्ज्वलहस्तिका ।
अक्षोभ्या सर्वतोभद्रा वयस्या स्वस्तिदक्षिणा ॥ ८४ ॥

सहस्रास्या ज्ञानमाता वैश्वानर्यक्षवर्तिनी ।
प्रत्यग्वरा वारणवत्यनसूया दुरासदा ॥ ८५ ॥

अरुन्धती कुण्डलिनी भव्या दुर्गतिनाशिनी ।
मृत्युञ्जया त्रासहरी निर्भया शत्रुसूदिनी ॥ ८६ ॥

एकाक्षरा सत्पुरन्ध्री सुरपक्षा सुरातुला ।
सकृद्विभाता सर्वार्तिसमुद्रपरिशोषिणी ॥ ८७ ॥

बिल्वप्रियाऽवनी चक्रहृदया कम्बुतीर्थगा ।
सर्वमन्त्रात्मिका विद्युत्सुवर्णा सर्वरञ्जिनी ॥ ८८ ॥

ध्वजछत्राश्रया भूतिर्वैष्णवी सद्गुणोज्ज्वला ।
सुषेणा लोकविदिता कामसूर्जगदादिभूः ॥ ८९ ॥

वेदान्तयोनिर्जिज्ञासा मनीषा समदर्शिनी ।
सहस्रशक्तिरावृत्तिः सुस्थिरा श्रेयसां निधिः ॥ ९० ॥

रोहिणी रेवती चन्द्रसोदरी भद्रमोहिनी ।
सूर्या कन्याप्रिया विश्वभावनी सुविभाविनी ॥ ९१ ॥

सुप्रदृश्या कामचारिण्यप्रमत्ता ललन्तिका ।
मोक्षलक्ष्मीर्जगद्योनिः व्योमलक्ष्मीः सुदुर्लभा ॥ ९२ ॥

भास्करी पुण्यगेहस्था मनोज्ञा विभवप्रदा ।
लोकस्वामिन्यच्युतार्था पुष्कला जगदाकृतिः ॥ ९३ ॥

विचित्रहारिणी कान्ता वाहिनी भूतवासिनी ।
प्राणिनी प्राणदा विश्वा विश्वब्रह्माण्डवासिनी ॥ ९४ ॥

सम्पूर्णा परमोत्साहा श्रीमती श्रीपतिः श्रुतिः ।
श्रयन्ती श्रीयमाणा क्ष्मा विश्वरूपा प्रसादिनी ॥ ९५ ॥

हर्षिणी प्रथमा शर्वा विशाला कामवर्षिणी ।
सुप्रतीका पृश्निमती निवृत्तिर्विविधा परा ॥ ९६ ॥

सुयज्ञा मधुरा श्रीदा देवरातिर्महामनाः ।
स्थूला सर्वाकृतिः स्थेमा निम्नगर्भा तमोनुदा ॥ ९७ ॥

तुष्टिर्वागीश्वरी पुष्टिः सर्वादिः सर्वशोषिणी ।
शक्त्यात्मिका शब्दशक्तिर्विशिष्टा वायुमत्युमा ॥ ९८ ॥

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिर्नयात्मिका ।
व्याली सङ्कर्षिणी द्योता महादेव्यपराजिता ॥ ९९ ॥

कपिला पिङ्गला स्वस्था बलाकी घोषनन्दिनी ।
अजिता कर्षिणी नीतिर्गरुडा गरुडासना ॥ १०० ॥

ह्लादिन्यनुग्रहा नित्या ब्रह्मविद्या हिरण्मयी ।
मही शुद्धविधा पृथ्वी सन्तानिन्यंशुमालिनी ॥ १०१ ॥

यज्ञाश्रया ख्यातिपरा स्तव्या वृष्टिस्त्रिकालगा ।
सम्बोधिनी शब्दपुर्णा विजयांशुमती कला ॥ १०२ ॥

शिवा स्तुतिप्रिया ख्यातिः जीवयन्ती पुनर्वसुः ।
दीक्षा भक्तार्तिहा रक्षा परीक्षा यज्ञसम्भवा ॥ १०३ ॥

आर्द्रा पुष्करिणी पुण्या गण्या दारिद्र्यभञ्जिनी ।
धन्या मान्या पद्मनेमी भार्गवी वंशवर्धनी ॥ १०४ ॥

तीक्ष्णप्रवृत्तिः सत्कीर्तिः निषेव्याऽघविनाशिनी ।
सञ्ज्ञा निःसंशया पूर्वा वनमाला वसुन्धरा ॥ १०५ ॥

पृथुर्महोत्कटाऽहल्या मण्डलाऽऽश्रितमानदा ।
सर्वा नित्योदितोदारा जृम्भमाणा महोदया ॥ १०६ ॥

चन्द्रकान्तोदिता चन्द्रा चतुरश्रा मनोजवा ।
बाला कुमारी युवतिः करुणा भक्तवत्सला ॥ १०७ ॥

मेदिन्युपनिषन्मिश्रा सुमवीरुर्धनेश्वरी ।
दुर्मर्षणी सुचरिता बोधा शोभा सुवर्चला ॥ १०८ ॥

यमुनाऽक्षौहिणी गङ्गा मन्दाकिन्यमरालया ।
गोदा गोदावरी चन्द्रभागा कावेर्युदन्वती ॥ १०९ ॥

सिनीवाली कुहू राका वारणा सिन्धुमत्यमा ।
वृद्धिः स्थितिर्ध्रुवा बुद्धिस्त्रिगुणा गुणगह्वरा ॥ ११० ॥

पूर्तिर्मायात्मिका स्फूर्तिर्व्याख्या सूत्रा प्रजावती ।
विभूतिर्निष्कला रम्भा रक्षा सुविमला क्षमा ॥ १११ ॥

प्राप्तिर्वासन्तिकालेखा भूरिबीजा महागदा ।
अमोघा शान्तिदा स्तुत्या ज्ञानदोत्कर्षिणी शिखा ॥ ११२ ॥

प्रकृतिर्गोमती लीला कमला कामधुग्विधिः ।
प्रज्ञा रामा परा सन्ध्या सुभद्रा सर्वमङ्गला ॥ ११३ ॥

नन्दा भद्रा जया रिक्ता तिथिपूर्णाऽमृतम्भरा ।
काष्ठा कामेश्वरी निष्ठा काम्या रम्या वरा स्मृतिः ॥ ११४ ॥

शङ्खिनी चक्रिणी श्यामा समा गोत्रा रमा दितिः ।
शान्तिर्दान्तिः स्तुतिः सिद्धिः विरजाऽत्युज्ज्वलाऽव्यया ॥ ११५ ॥

वाणी गौरीन्दिरा लक्ष्मीः मेधा श्रद्धा सरस्वती ।
स्वधा स्वाहा रतिरुषा वसुविद्या धृतिः सहा ॥ ११६ ॥

शिष्टेष्टा च शुचिर्धात्री सुधा रक्षोघ्न्यजाऽमृता ।
रत्नावली भारतीडा धीरधीः केवलाऽऽत्मदा ॥ ११७ ॥

या सा शुद्धिः सस्मिता का नीला राधाऽमृतोद्भवा ।
परधुर्यास्पदा ह्रीर्भूः कामिनी शोकनाशिनी ॥ ११८ ॥

मायाकृती रसघना नर्मदा गोकुलाश्रया ।
अर्कप्रभा रथेभाश्वनिलयेन्दुप्रभाऽद्भुता ॥ ११९ ॥

श्रीः कृशानुप्रभा वज्रलम्भना सर्वभूमिदा ।
भोगप्रिया भोगवती भोगीन्द्रशयनासना ॥ १२० ॥

अश्वपूर्वा रथमध्या हस्तिनादप्रबोधिनी ।
सर्वलक्षणलक्षण्या सर्वलोकप्रियङ्करी ॥ १२१ ॥

सर्वोत्कृष्टा सर्वमयी भवभङ्गापहारिणी ।
वेदान्तस्था ब्रह्मनीतिः ज्योतिष्मत्यमृतावहा ॥ १२२ ॥

भूताश्रया निराधारा संहिता सुगुणोत्तरा ।
सर्वातिशायिनी प्रीतिः सर्वभूतस्थिता द्विजा ।
सर्वमङ्गलमाङ्गल्या दृष्टादृष्टफलप्रदा ॥ १२३ ॥

इति श्री महालक्ष्मी सहस्रनाम स्तोत्रम् ।


Mahalakshmi Sahasranamavali in English


asya srimahalaksmi sahasranamastotra mahamantrasya srimahavisṇurbhagavan rsih anustupchandah srimahalaksmirdevata sriṁ bijaṁ hriṁ saktih hraiṁ kilakaṁ srimahalaksmiprasadasiddhyarthe jape viniyogah ||


dhyanam


padmanane padmakare sarvalokaikapūjite |
sannidhyaṁ kuru me citte visṇuvaksahsthalasthite || 1 ||

bhagavaddaksiṇe parsve sriyaṁ devimavasthitam |
isvariṁ sarvabhūtanaṁ jananiṁ sarvadehinam || 2 ||

carusmitaṁ carudatiṁ carunetrananabhruvam |
sukapolaṁ sukarṇagranyastamauktikakuṇḍalam || 3 ||

sukesaṁ carubimbosthiṁ ratnatuṅgaghanastanim |
alakagrairalinibhairalaṅkrtamukhambujam || 4 ||

lasatkanakasaṅkasaṁ pinasundarakandharam |
niskakaṇthiṁ stanalambimuktaharavirajitam || 5 ||

nilakuntalamadhyasthamaṇikyamakutojjvalam |
suklamalyambaradharaṁ taptahatakavarṇinim || 6 ||

ananyasulabhaistaistairguṇaih saumyamukhairnijaih |
anurūpanavadyaṅgiṁ harernityanapayinim || 7 ||

atha stotram

srirvasudevamahisi pumpradhanesvaresvari |
acintyanantavibhava bhavabhavavibhavini || 1 ||

ahambhavatmika padma santanantacidatmika |
brahmabhavaṁ gata tyaktabheda sarvajaganmayi || 2 ||

saḍguṇyapūrṇa trayyantarūpatmanapagamini |
ekayogyasūnyabhavakrtistejah prabhavini || 3 ||

bhavyabhavakabhavatmabhavya kamadhugatmabhūh |
bhavabhavamayi divya bhedyabhedakabhavani || 4 ||

jagatkutumbinyakhiladhara kamavijrmbhiṇi |
pañcakrtyakari pañcasaktimayyatmavallabha || 5 ||

bhavabhavanuga sarvasammatatmopagūhini |
aprthakcariṇi saumya saumyarūpavyavasthita || 6 ||

adyantarahita devi bhavabhavyasvarūpiṇi |
mahavibhūtih samataṁ gata jyotirgaṇesvari || 7 ||

sarvakaryakari dharmasvabhavatmagratah sthita |
ajñasamavibhaktaṅgi jñananandakriyamayi || 8 ||

svatantryarūpa devorahsthita taddharmadharmiṇi |
sarvabhūtesvari sarvabhūtamatatmamohini || 9 ||

sarvaṅgasundari sarvavyapini praptayogini |
vimuktidayini bhaktigamya saṁsaratariṇi || 10 ||

dharmarthasadhini vyomanilaya vyomavigraha |
pañcavyomapadi raksavyavrtih prapyapūriṇi || 11 ||

anandarūpa sarvaptisalini saktinayika |
hiraṇyavarṇa hairaṇyaprakara hemamalini || 12 ||

prasphuratta bhadrahoma vesini rajatasraja |
svajñakaryamara nityasurabhirvyomacariṇi || 13 ||

yogaksemavaha sarvasulabhecchakriyatmika |
karuṇagranatamukhi kamalaksi sasiprabha || 14 ||

kalyaṇadayini kalya kalikalmasanasini |
prajñaparimitatmanurūpa satyopayacita || 15 ||

manojñeya jñanagamya nityamuktatmasevini |
kartrsaktih sugahana bhoktrsaktirguṇapriya || 16 ||

jñanasaktiranaupamya nirvikalpa niramaya |
akalaṅkamrtadhara mahasaktirvikasini || 17 ||

mahamaya mahananda nihsaṅkalpa niramaya |
ekasvarūpa trividha saṅkhyatita nirañjana || 18 ||

atmasatta nityasucih parasaktih sukhocita |
nityasanta nistaraṅga nirbhinna sarvabhedini || 19 ||

asaṅkirṇavidheyatma nisevya sarvapalini |
niskamana sarvarasabhedya sarvartha sadhini || 20 ||

anirdesyaparimita nirvikara trilaksaṇa |
bhayaṅkari siddhirūpavyakta sadasadakrtih || 21 ||

apratarkyapratihata niyantri yantravahini |
hardamūrtirmahamūrtiravyakta visvagopini || 22 ||

vardhamananavadyaṅgi niravadya trivargada |
aprameyakriya sūksma paranirvaṇadayini || 23 ||

avigita tantrasiddha yogasiddhamaresvari |
visvasūtistarpayanti nityatrpta mahausadhih || 24 ||

sabdahvaya sabdasaha krtajña krtalaksaṇa |
trivartini trilokastha bhūrbhuvahsvarayonija || 25 ||

agrahyagrahikanantahvaya sarvatisayini |
vyomapadma krtadhura pūrṇakama mahesvari || 26 ||

suvacya vacika satyakathana sarvapalini |
laksyamaṇa laksayanti jagajjyestha subhavaha || 27 ||

jagatpratistha bhuvanabhartri gūḍhaprabhavati |
kriyayogatmika mūrtih hrdabjastha mahakrama || 28 ||

paramadyauh prathamaja paramapta jagannidhih |
atmanapayini tulyasvarūpa samalaksaṇa || 29 ||

tulyavrtta samavaya modamana khagadhvaja |
priyacesta tulyasila varada kamarūpiṇi || 30 ||

samagralaksaṇananta tulyabhūtih sanatani |
mahardhih satyasaṅkalpa bahvrca paramesvari || 31 ||

jaganmata sūtravati bhūtadhatri yasasvini |
mahabhilasa savitri pradhana sarvabhasini || 32 ||

nanavapurbahubhida sarvajña puṇyakirtana |
bhūtasraya hrsikesvaryasoka vajivahika || 33 ||

brahmatmika puṇyajanih satyakama samadhibhūh |
hiraṇyagarbha gambhira godhūlih kamalasana || 34 ||

jitakrodha kumudini vaijayanti manojava |
dhanalaksmih svastikari rajyalaksmirmahasati || 35 ||

jayalaksmirmahagosthi maghoni madhavapriya |
padmagarbha vedavati vivikta paramesthini || 36 ||

suvarṇabindurmahati mahayogipriyanagha |
padmesthita vedamayi kumuda jayavahini || 37 ||

saṁhatirnirmita jyotih niyatirvividhotsava |
rudravandya sindhumati vedamata madhuvrata || 38 ||

visvambhara haimavati samudrecchavihariṇi |
anukūla yajñavati satakotih supesala || 39 ||

dharmodaya dharmasevya sukumari sabhavati |
bhima brahmastuta madhyaprabha devarsivandita || 40 ||

devabhogya mahabhaga pratijña pūrṇasevadhih |
suvarṇaruciraprakhya bhogini bhogadayini || 41 ||

vasupradottamavadhūh gayatri kamalodbhava |
vidvatpriya padmacihna varistha kamaleksaṇa || 42 ||

padmapriya suprasanna pramoda priyaparsvaga |
visvabhūsa kantimati krsṇa viṇaravotsuka || 43 ||

rociskari svaprakasa sobhamanavihaṅgama |
devaṅkastha pariṇatih kamavatsa mahamatih || 44 ||

ilvalotpalanabhadhisamani varavarṇini |
svanistha padmanilaya sadgatih padmagandhini || 45 ||

padmavarṇa kamayonih caṇḍika carukopana |
ratisnusa padmadhara pūjya trailokyamohini || 46 ||

nityakanya bindumalinyaksaya sarvamatrka |
gandhatmika surasika diptamūrtih sumadhyama || 47 ||

prthusroṇi saumyamukhi subhaga vistarasrutih |
smitanana carudati nimnanabhirmahastani || 48 ||

snigdhaveṇi bhagavati sukanta vamalocana |
pallavaṅghrih padmamanah padmabodha mahapsarah || 49 ||

vidvatpriya caruhasa subhadrstih kakudmini |
kambugriva sujaghana raktapaṇirmanorama || 50 ||

padmini mandagamana caturdaṁstra caturbhuja |
subharekha vilasabhrūh sukavaṇi kalavati || 51 ||

rjunasa kalarava vararoha talodari |
sandhya bimbadhara pūrvabhasiṇi strisamahvaya || 52 ||

iksucapa sumasara divyabhūsa manohara |
vasavi paṇḍaracchatra karabhorustilottama || 53 ||

simantini praṇasaktirvibhisaṇyasudhariṇi |
bhadra jayavaha candravadana kutilalaka || 54 ||

citrambara citragandha ratnamaulisamujjvala |
divyayudha divyamalya visakha citravahana || 55 ||

ambika sindhutanaya susroṇih sumahasana |
samapriya namritaṅgi sarvasevya varaṅgana || 56 ||

gandhadvara duradharsa nityapusta karisiṇi |
devajustadityavarṇa divyagandha suhrttama || 57 ||

anantarūpanantastha sarvadanantasaṅgama |
yajñasini mahavrstih sarvapūjya vasatkriya || 58 ||

yogapriya viyannabhih anantasriratindriya |
yogisevya satyarata yogamaya puratani || 59 ||

sarvesvari sutaraṇih saraṇya dharmadevata |
sutara saṁvrtajyotih yogini yogasiddhida || 60 ||

srstisaktirdyotamana bhūta maṅgaladevata |
saṁharasaktih prabala nirupadhih paravara || 61 ||

uttariṇi tarayanti sasvati samitiñjaya |
mahasrirajahatkirtih yogasrih siddhisadhani || 62 ||

puṇyasrih puṇyanilaya brahmasrirbrahmaṇapriya |
rajasri rajakalita phalasrih svargadayini || 63 ||

devasriradbhutakatha vedasrih srutimargiṇi |
tamopahavyayanidhih laksaṇa hrdayaṅgama || 94 ||

mrtasañjivini subhra candrika sarvatomukhi |
sarvottama mitravinda maithili priyadarsana || 65 ||

satyabhama vedavedya sita praṇataposiṇi |
mūlaprakrtirisana sivada dipradipini || 66 ||

abhipriya svairavrttih rukmiṇi sarvasaksiṇi |
gandhariṇi paragatistattvagarbha bhavabhava || 67 ||

antarvrttirmaharudra visṇudurga mahabala |
madayanti lokadhariṇyadrsya sarvaniskrtih || 68 ||

devasenatmabalada vasudha mukhyamatrka |
ksiradhara ghrtamayi juhvati yajñadaksiṇa || 69 ||

yoganidra yogarata brahmacarya duratyaya |
siṁhapiñcha mahadurga jayanti khaḍgadhariṇi || 70 ||

sarvartinasini hrsta sarvecchaparipūrika |
arya yasoda vasuda dharmakamarthamoksada || 71 ||

trisūlini padmacihna mahakalindumalini |
ekavira bhadrakali svanandinyullasadgada || 72 ||

narayaṇi jagatpūriṇyurvara druhiṇaprasūh |
yajñakama lelihana tirthakaryugravikrama || 73 ||

garutmadudayatyugra varahi matrbhasiṇi |
asvakranta rathakranta visṇukrantorucariṇi || 74 ||

vairocani narasiṁhi jimūta subhadeksaṇa |
diksavida visvasaktih bijasaktih sudarsani || 75 ||

pratita jagati vanyadhariṇi kalinasini |
ayodhyacchinnasantana maharatna sukhavaha || 76 ||

rajavatyapratibhaya vinayitri mahasana |
amrtasyandini sima yajñagarbha sameksaṇa || 77 ||

akūtirgyajussamaghosaramavanotsuka |
somapa madhavi nityakalyaṇi kamalarcita || 78 ||

yogarūḍha svarthajusta vahnivarṇa jitasura |
yajñavidya guhyavidyadhyatmavidya krtagama || 79 ||

apyayani kalatita sumitra parabhaktida |
kaṅksamaṇa mahamaya kolakamamaravati || 80 ||

suvirya duhsvapnahara devaki vasudevata |
saudamini megharatha daityadanavamardini || 81 ||

sreyaskari citralilaikakini ratnapaduka |
manasyamana tulasi roganasinyuruprada || 82 ||

tejasvini sukhajvala mandarekhamrtasini |
brahmistha vahnisamani jusamaṇa guṇatyaya || 83 ||

kadambari brahmarata vidhatryujjvalahastika |
aksobhya sarvatobhadra vayasya svastidaksiṇa || 84 ||

sahasrasya jñanamata vaisvanaryaksavartini |
pratyagvara varaṇavatyanasūya durasada || 85 ||

arundhati kuṇḍalini bhavya durgatinasini |
mrtyuñjaya trasahari nirbhaya satrusūdini || 86 ||

ekaksara satpurandhri surapaksa suratula |
sakrdvibhata sarvartisamudraparisosiṇi || 87 ||

bilvapriyavani cakrahrdaya kambutirthaga |
sarvamantratmika vidyutsuvarṇa sarvarañjini || 88 ||

dhvajachatrasraya bhūtirvaisṇavi sadguṇojjvala |
suseṇa lokavidita kamasūrjagadadibhūh || 89 ||

vedantayonirjijñasa manisa samadarsini |
sahasrasaktiravrttih susthira sreyasaṁ nidhih || 90 ||

rohiṇi revati candrasodari bhadramohini |
sūrya kanyapriya visvabhavani suvibhavini || 91 ||

supradrsya kamacariṇyapramatta lalantika |
moksalaksmirjagadyonih vyomalaksmih sudurlabha || 92 ||

bhaskari puṇyagehastha manojña vibhavaprada |
lokasvaminyacyutartha puskala jagadakrtih || 93 ||

vicitrahariṇi kanta vahini bhūtavasini |
praṇini praṇada visva visvabrahmaṇḍavasini || 94 ||

sampūrṇa paramotsaha srimati sripatih srutih |
srayanti sriyamaṇa ksma visvarūpa prasadini || 95 ||

harsiṇi prathama sarva visala kamavarsiṇi |
supratika prsnimati nivrttirvividha para || 96 ||

suyajña madhura srida devaratirmahamanah |
sthūla sarvakrtih sthema nimnagarbha tamonuda || 97 ||

tustirvagisvari pustih sarvadih sarvasosiṇi |
saktyatmika sabdasaktirvisista vayumatyuma || 98 ||

anviksiki trayi varta daṇḍanitirnayatmika |
vyali saṅkarsiṇi dyota mahadevyaparajita || 99 ||

kapila piṅgala svastha balaki ghosanandini |
ajita karsiṇi nitirgaruḍa garuḍasana || 100 ||

hladinyanugraha nitya brahmavidya hiraṇmayi |
mahi suddhavidha prthvi santaninyaṁsumalini || 101 ||

yajñasraya khyatipara stavya vrstistrikalaga |
sambodhini sabdapurṇa vijayaṁsumati kala || 102 ||

siva stutipriya khyatih jivayanti punarvasuh |
diksa bhaktartiha raksa pariksa yajñasambhava || 103 ||

ardra puskariṇi puṇya gaṇya daridryabhañjini |
dhanya manya padmanemi bhargavi vaṁsavardhani || 104 ||

tiksṇapravrttih satkirtih nisevyaghavinasini |
sañjña nihsaṁsaya pūrva vanamala vasundhara || 105 ||

prthurmahotkatahalya maṇḍalasritamanada |
sarva nityoditodara jrmbhamaṇa mahodaya || 106 ||

candrakantodita candra caturasra manojava |
bala kumari yuvatih karuṇa bhaktavatsala || 107 ||

medinyupanisanmisra sumavirurdhanesvari |
durmarsaṇi sucarita bodha sobha suvarcala || 108 ||

yamunaksauhiṇi gaṅga mandakinyamaralaya |
goda godavari candrabhaga kaveryudanvati || 109 ||

sinivali kuhū raka varaṇa sindhumatyama |
vrddhih sthitirdhruva buddhistriguṇa guṇagahvara || 110 ||

pūrtirmayatmika sphūrtirvyakhya sūtra prajavati |
vibhūtirniskala rambha raksa suvimala ksama || 111 ||

praptirvasantikalekha bhūribija mahagada |
amogha santida stutya jñanadotkarsiṇi sikha || 112 ||

prakrtirgomati lila kamala kamadhugvidhih |
prajña rama para sandhya subhadra sarvamaṅgala || 113 ||

nanda bhadra jaya rikta tithipūrṇamrtambhara |
kastha kamesvari nistha kamya ramya vara smrtih || 114 ||

saṅkhini cakriṇi syama sama gotra rama ditih |
santirdantih stutih siddhih virajatyujjvalavyaya || 115 ||

vaṇi gaurindira laksmih medha sraddha sarasvati |
svadha svaha ratirusa vasuvidya dhrtih saha || 116 ||

sistesta ca sucirdhatri sudha raksoghnyajamrta |
ratnavali bharatiḍa dhiradhih kevalatmada || 117 ||

ya sa suddhih sasmita ka nila radhamrtodbhava |
paradhuryaspada hrirbhūh kamini sokanasini || 118 ||

mayakrti rasaghana narmada gokulasraya |
arkaprabha rathebhasvanilayenduprabhadbhuta || 119 ||

srih krsanuprabha vajralambhana sarvabhūmida |
bhogapriya bhogavati bhogindrasayanasana || 120 ||

asvapūrva rathamadhya hastinadaprabodhini |
sarvalaksaṇalaksaṇya sarvalokapriyaṅkari || 121 ||

sarvotkrsta sarvamayi bhavabhaṅgapahariṇi |
vedantastha brahmanitih jyotismatyamrtavaha || 122 ||

bhūtasraya niradhara saṁhita suguṇottara |
sarvatisayini pritih sarvabhūtasthita dvija |
sarvamaṅgalamaṅgalya drstadrstaphalaprada || 123 ||

iti sri mahalaksmi sahasranama stotram |


Mahalakshmi Sahasranamavali

Mahalakshmi Sahasranamavali in Tamil (ஶ்ரீ மஹாலக்ஷ்மீ ஸஹஸ்ரநாம)


அஸ்ய ஶ்ரீமஹாலக்ஷ்மீ ஸஹஸ்ரநாமஸ்தோத்ர மஹாமந்த்ரஸ்ய ஶ்ரீமஹாவிஷ்ணுர்ப⁴க³வான் ருஷி꞉ அநுஷ்டுப்ச²ந்த³꞉ ஶ்ரீமஹாலக்ஷ்மீர்தே³வதா ஶ்ரீம் பீ³ஜம் ஹ்ரீம் ஶக்தி꞉ ஹ்ரைம் கீலகம் ஶ்ரீமஹாலக்ஷ்மீப்ரஸாத³ஸித்³த்⁴யர்தே² ஜபே விநியோக³꞉ ॥


த்⁴யாநம்


பத்³மாநநே பத்³மகரே ஸர்வலோகைகபூஜிதே ।
ஸாந்நித்⁴யம் குரு மே சித்தே விஷ்ணுவக்ஷ꞉ஸ்த²லஸ்தி²தே ॥ 1 ॥

ப⁴க³வத்³த³க்ஷிணே பார்ஶ்வே ஶ்ரியம் தே³வீமவஸ்தி²தாம் ।
ஈஶ்வரீம் ஸர்வபூ⁴தாநாம் ஜநநீம் ஸர்வதே³ஹிநாம் ॥ 2 ॥

சாருஸ்மிதாம் சாருத³தீம் சாருநேத்ராநநப்⁴ருவம் ।
ஸுகபோலாம் ஸுகர்ணாக்³ரந்யஸ்தமௌக்திககுண்ட³லாம் ॥ 3 ॥

ஸுகேஶாம் சாருபி³ம்போ³ஷ்டீ²ம் ரத்நதுங்க³க⁴நஸ்தநீம் ।
அலகாக்³ரைரளிநிபை⁴ரளங்க்ருதமுகா²ம்பு³ஜாம் ॥ 4 ॥

லஸத்கநகஸங்காஶாம் பீநஸுந்த³ரகந்த⁴ராம் ।
நிஷ்ககண்டீ²ம் ஸ்தநாலம்பி³முக்தாஹாரவிராஜிதாம் ॥ 5 ॥

நீலகுந்தலமத்⁴யஸ்த²மாணிக்யமகுடோஜ்ஜ்வலாம் ।
ஶுக்லமால்யாம்ப³ரத⁴ராம் தப்தஹாடகவர்ணிநீம் ॥ 6 ॥

அநந்யஸுலபை⁴ஸ்தைஸ்தைர்கு³ணை꞉ ஸௌம்யமுகை²ர்நிஜை꞉ ।
அநுரூபாநவத்³யாங்கீ³ம் ஹரேர்நித்யாநபாயிநீம் ॥ 7 ॥

அத² ஶ்ரீ மஹாலக்ஷ்மீ ஸஹஸ்ரநாம ஸ்தோத்ரம்

ஶ்ரீர்வாஸுதே³வமஹிஷீ பும்ப்ரதா⁴நேஶ்வரேஶ்வரீ ।
அசிந்த்யாநந்தவிப⁴வா பா⁴வாபா⁴வவிபா⁴விநீ ॥ 1 ॥

அஹம்பா⁴வாத்மிகா பத்³மா ஶாந்தாநந்தசிதா³த்மிகா ।
ப்³ரஹ்மபா⁴வம் க³தா த்யக்தபே⁴தா³ ஸர்வஜக³ந்மயீ ॥ 2 ॥

ஷாட்³கு³ண்யபூர்ணா த்ரய்யந்தரூபா(ஆ)த்மாநபகா³மிநீ ।
ஏகயோக்³யா(அ)ஶூந்யபா⁴வாக்ருதிஸ்தேஜ꞉ ப்ரபா⁴விநீ ॥ 3 ॥

பா⁴வ்யபா⁴வகபா⁴வா(ஆ)த்மபா⁴வ்யா காமது⁴கா³(ஆ)த்மபூ⁴꞉ ।
பா⁴வாபா⁴வமயீ தி³வ்யா பே⁴த்³யபே⁴த³கபா⁴வநீ ॥ 4 ॥

ஜக³த்குடும்பி³ந்யகி²லாதா⁴ரா காமவிஜ்ரும்பி⁴ணீ ।
பஞ்சக்ருத்யகரீ பஞ்சஶக்திமய்யாத்மவல்லபா⁴ ॥ 5 ॥

பா⁴வாபா⁴வாநுகா³ ஸர்வஸம்மதா(ஆ)த்மோபகூ³ஹிநீ ।
அப்ருத²க்சாரிணீ ஸௌம்யா ஸௌம்யரூபவ்யவஸ்தி²தா ॥ 6 ॥

ஆத்³யந்தரஹிதா தே³வீ ப⁴வபா⁴வ்யஸ்வரூபிணீ ।
மஹாவிபூ⁴தி꞉ ஸமதாம் க³தா ஜ்யோதிர்க³ணேஶ்வரீ ॥ 7 ॥

ஸர்வகார்யகரீ த⁴ர்மஸ்வபா⁴வாத்மா(அ)க்³ரத꞉ ஸ்தி²தா ।
ஆஜ்ஞாஸமவிப⁴க்தாங்கீ³ ஜ்ஞாநாநந்த³க்ரியாமயீ ॥ 8 ॥

ஸ்வாதந்த்ர்யரூபா தே³வோர꞉ஸ்தி²தா தத்³த⁴ர்மத⁴ர்மிணீ ।
ஸர்வபூ⁴தேஶ்வரீ ஸர்வபூ⁴தமாதா(ஆ)த்மமோஹிநீ ॥ 9 ॥

ஸர்வாங்க³ஸுந்த³ரீ ஸர்வவ்யாபிநீ ப்ராப்தயோகி³நீ ।
விமுக்திதா³யிநீ ப⁴க்திக³ம்யா ஸம்ஸாரதாரிணீ ॥ 10 ॥

த⁴ர்மார்த²ஸாதி⁴நீ வ்யோமநிலயா வ்யோமவிக்³ரஹா ।
பஞ்சவ்யோமபதீ³ ரக்ஷவ்யாவ்ருதி꞉ ப்ராப்யபூரிணீ ॥ 11 ॥

ஆநந்த³ரூபா ஸர்வாப்திஶாலிநீ ஶக்திநாயிகா ।
ஹிரண்யவர்ணா ஹைரண்யப்ராகாரா ஹேமமாலிநீ ॥ 12 ॥

ப்ரஸ்பு²ரத்தா ப⁴த்³ரஹோமா வேஶிநீ ரஜதஸ்ரஜா ।
ஸ்வாஜ்ஞாகார்யமரா நித்யஸுரபி⁴ர்வ்யோமசாரிணீ ॥ 13 ॥

யோக³க்ஷேமவஹா ஸர்வஸுலபே⁴ச்சா²க்ரியாத்மிகா ।
கருணாக்³ராநதமுகீ² கமலாக்ஷீ ஶஶிப்ரபா⁴ ॥ 14 ॥

கல்யாணதா³யிநீ கல்யா கலிகல்மஷநாஶிநீ ।
ப்ரஜ்ஞாபரிமிதா(ஆ)த்மாநுரூபா ஸத்யோபயாசிதா ॥ 15 ॥

மநோஜ்ஞேயா ஜ்ஞாநக³ம்யா நித்யமுக்தாத்மஸேவிநீ ।
கர்த்ருஶக்தி꞉ ஸுக³ஹநா போ⁴க்த்ருஶக்திர்கு³ணப்ரியா ॥ 16 ॥

ஜ்ஞாநஶக்திரநௌபம்யா நிர்விகல்பா நிராமயா ।
அகலங்கா(அ)ம்ருதாதா⁴ரா மஹாஶக்திர்விகாஸிநீ ॥ 17 ॥

மஹாமாயா மஹாநந்தா³ நி꞉ஸங்கல்பா நிராமயா ।
ஏகஸ்வரூபா த்ரிவிதா⁴ ஸங்க்²யாதீதா நிரஞ்ஜநா ॥ 18 ॥

ஆத்மஸத்தா நித்யஶுசி꞉ பரஶக்தி꞉ ஸுகோ²சிதா ।
நித்யஶாந்தா நிஸ்தரங்கா³ நிர்பி⁴ந்நா ஸர்வபே⁴தி³நீ ॥ 19 ॥

அஸங்கீர்ணா(அ)விதே⁴யாத்மா நிஷேவ்யா ஸர்வபாலிநீ ।
நிஷ்காமநா ஸர்வரஸா(அ)பே⁴த்³யா ஸர்வார்த² ஸாதி⁴நீ ॥ 20 ॥

அநிர்தே³ஶ்யா(அ)பரிமிதா நிர்விகாரா த்ரிலக்ஷணா ।
ப⁴யங்கரீ ஸித்³தி⁴ரூபா(அ)வ்யக்தா ஸத³ஸதா³க்ருதி꞉ ॥ 21 ॥

அப்ரதர்க்யா(அ)ப்ரதிஹதா நியந்த்ரீ யந்த்ரவாஹிநீ ।
ஹார்த³மூர்திர்மஹாமூர்திரவ்யக்தா விஶ்வகோ³பிநீ ॥ 22 ॥

வர்த⁴மாநா(அ)நவத்³யாங்கீ³ நிரவத்³யா த்ரிவர்க³தா³ ।
அப்ரமேயா(அ)க்ரியா ஸூக்ஷ்மா பரநிர்வாணதா³யிநீ ॥ 23 ॥

அவிகீ³தா தந்த்ரஸித்³தா⁴ யோக³ஸித்³தா⁴(அ)மரேஶ்வரீ ।
விஶ்வஸூதிஸ்தர்பயந்தீ நித்யத்ருப்தா மஹௌஷதி⁴꞉ ॥ 24 ॥

ஶப்³தா³ஹ்வயா ஶப்³த³ஸஹா க்ருதஜ்ஞா க்ருதலக்ஷணா ।
த்ரிவர்திநீ த்ரிலோகஸ்தா² பூ⁴ர்பு⁴வ꞉ஸ்வரயோநிஜா ॥ 25 ॥

அக்³ராஹ்யா(அ)க்³ராஹிகா(அ)நந்தாஹ்வயா ஸர்வாதிஶாயிநீ ।
வ்யோமபத்³மா க்ருதது⁴ரா பூர்ணகாமா மஹேஶ்வரீ ॥ 26 ॥

ஸுவாச்யா வாசிகா ஸத்யகத²நா ஸர்வபாலிநீ ।
லக்ஷ்யமாணா லக்ஷயந்தீ ஜக³ஜ்ஜ்யேஷ்டா² ஶுபா⁴வஹா ॥ 27 ॥

ஜக³த்ப்ரதிஷ்டா² பு⁴வநப⁴ர்த்ரீ கூ³ட⁴ப்ரபா⁴வதீ ।
க்ரியாயோகா³த்மிகா மூர்தி꞉ ஹ்ருத³ப்³ஜஸ்தா² மஹாக்ரமா ॥ 28 ॥

பரமத்³யௌ꞉ ப்ரத²மஜா பரமாப்தா ஜக³ந்நிதி⁴꞉ ।
ஆத்மாநபாயிநீ துல்யஸ்வரூபா ஸமலக்ஷணா ॥ 29 ॥

துல்யவ்ருத்தா ஸமவயா மோத³மாநா க²க³த்⁴வஜா ।
ப்ரியசேஷ்டா துல்யஶீலா வரதா³ காமரூபிணீ ॥ 30 ॥

ஸமக்³ரளக்ஷணா(அ)நந்தா துல்யபூ⁴தி꞉ ஸநாதநீ ।
மஹர்தி⁴꞉ ஸத்யஸங்கல்பா ப³ஹ்வ்ருசா பரமேஶ்வரீ ॥ 31 ॥

ஜக³ந்மாதா ஸூத்ரவதீ பூ⁴ததா⁴த்ரீ யஶஸ்விநீ ।
மஹாபி⁴லாஷா ஸாவித்ரீ ப்ரதா⁴நா ஸர்வபா⁴ஸிநீ ॥ 32 ॥

நாநாவபுர்ப³ஹுபி⁴தா³ ஸர்வஜ்ஞா புண்யகீர்தநா ।
பூ⁴தாஶ்ரயா ஹ்ருஷீகேஶ்வர்யஶோகா வாஜிவாஹிகா ॥ 33 ॥

ப்³ரஹ்மாத்மிகா புண்யஜநி꞉ ஸத்யகாமா ஸமாதி⁴பூ⁴꞉ ।
ஹிரண்யக³ர்பா⁴ க³ம்பீ⁴ரா கோ³தூ⁴ளி꞉ கமலாஸநா ॥ 34 ॥

ஜிதக்ரோதா⁴ குமுதி³நீ வைஜயந்தீ மநோஜவா ।
த⁴நலக்ஷ்மீ꞉ ஸ்வஸ்திகரீ ராஜ்யலக்ஷ்மீர்மஹாஸதீ ॥ 35 ॥

ஜயலக்ஷ்மீர்மஹாகோ³ஷ்டீ² மகோ⁴நீ மாத⁴வப்ரியா ।
பத்³மக³ர்பா⁴ வேத³வதீ விவிக்தா பரமேஷ்டி²நீ ॥ 36 ॥

ஸுவர்ணபி³ந்து³ர்மஹதீ மஹாயோகி³ப்ரியா(அ)நகா⁴ ।
பத்³மேஸ்தி²தா வேத³மயீ குமுதா³ ஜயவாஹிநீ ॥ 37 ॥

ஸம்ஹதிர்நிர்மிதா ஜ்யோதி꞉ நியதிர்விவிதோ⁴த்ஸவா ।
ருத்³ரவந்த்³யா ஸிந்து⁴மதீ வேத³மாதா மது⁴வ்ரதா ॥ 38 ॥

விஶ்வம்ப⁴ரா ஹைமவதீ ஸமுத்³ரேச்சா²விஹாரிணீ ।
அநுகூலா யஜ்ஞவதீ ஶதகோடி꞉ ஸுபேஶலா ॥ 39 ॥

த⁴ர்மோத³யா த⁴ர்மஸேவ்யா ஸுகுமாரீ ஸபா⁴வதீ ।
பீ⁴மா ப்³ரஹ்மஸ்துதா மத்⁴யப்ரபா⁴ தே³வர்ஷிவந்தி³தா ॥ 40 ॥

தே³வபோ⁴க்³யா மஹாபா⁴கா³ ப்ரதிஜ்ஞா பூர்ணஶேவதி⁴꞉ ।
ஸுவர்ணருசிரப்ரக்²யா போ⁴கி³நீ போ⁴க³தா³யிநீ ॥ 41 ॥

வஸுப்ரதோ³த்தமவதூ⁴꞉ கா³யத்ரீ கமலோத்³ப⁴வா ।
வித்³வத்ப்ரியா பத்³மசிஹ்நா வரிஷ்டா² கமலேக்ஷணா ॥ 42 ॥

பத்³மப்ரியா ஸுப்ரஸந்நா ப்ரமோதா³ ப்ரியபார்ஶ்வகா³ ।
விஶ்வபூ⁴ஷா காந்திமதீ க்ருஷ்ணா வீணாரவோத்ஸுகா ॥ 43 ॥

ரோசிஷ்கரீ ஸ்வப்ரகாஶா ஶோப⁴மாநவிஹங்க³மா ।
தே³வாங்கஸ்தா² பரிணதி꞉ காமவத்ஸா மஹாமதி꞉ ॥ 44 ॥

இல்வலோத்பலநாபா⁴(அ)தி⁴ஶமநீ வரவர்ணிநீ ।
ஸ்வநிஷ்டா² பத்³மநிலயா ஸத்³க³தி꞉ பத்³மக³ந்தி⁴நீ ॥ 45 ॥

பத்³மவர்ணா காமயோநி꞉ சண்டி³கா சாருகோபநா ।
ரதிஸ்நுஷா பத்³மத⁴ரா பூஜ்யா த்ரைலோக்யமோஹிநீ ॥ 46 ॥

நித்யகந்யா பி³ந்து³மாலிந்யக்ஷயா ஸர்வமாத்ருகா ।
க³ந்தா⁴த்மிகா ஸுரஸிகா தீ³ப்தமூர்தி꞉ ஸுமத்⁴யமா ॥ 47 ॥

ப்ருது²ஶ்ரோணீ ஸௌம்யமுகீ² ஸுப⁴கா³ விஷ்டரஶ்ருதி꞉ ।
ஸ்மிதாநநா சாருத³தீ நிம்நநாபி⁴ர்மஹாஸ்தநீ ॥ 48 ॥

ஸ்நிக்³த⁴வேணீ ப⁴க³வதீ ஸுகாந்தா வாமலோசநா ।
பல்லவாங்க்⁴ரி꞉ பத்³மமநா꞉ பத்³மபோ³தா⁴ மஹாப்ஸரா꞉ ॥ 49 ॥

வித்³வத்ப்ரியா சாருஹாஸா ஶுப⁴த்³ருஷ்டி꞉ ககுத்³மிநீ ।
கம்பு³க்³ரீவா ஸுஜக⁴நா ரக்தபாணிர்மநோரமா ॥ 50 ॥

பத்³மிநீ மந்த³க³மநா சதுர்த³ம்ஷ்ட்ரா சதுர்பு⁴ஜா ।
ஶுப⁴ரேகா² விளாஸப்⁴ரூ꞉ ஶுகவாணீ கலாவதீ ॥ 51 ॥

ருஜுநாஸா கலரவா வராரோஹா தலோத³ரீ ।
ஸந்த்⁴யா பி³ம்பா³த⁴ரா பூர்வபா⁴ஷிணீ ஸ்த்ரீஸமாஹ்வயா ॥ 52 ॥

இக்ஷுசாபா ஸுமஶரா தி³வ்யபூ⁴ஷா மநோஹரா ।
வாஸவீ பாண்ட³ரச்ச²த்ரா கரபோ⁴ருஸ்திலோத்தமா ॥ 53 ॥

ஸீமந்திநீ ப்ராணஶக்திர்விபீ⁴ஷண்யஸுதா⁴ரிணீ ।
ப⁴த்³ரா ஜயாவஹா சந்த்³ரவத³நா குடிலாலகா ॥ 54 ॥

சித்ராம்ப³ரா சித்ரக³ந்தா⁴ ரத்நமௌளிஸமுஜ்ஜ்வலா ।
தி³வ்யாயுதா⁴ தி³வ்யமால்யா விஶாகா² சித்ரவாஹநா ॥ 55 ॥

அம்பி³கா ஸிந்து⁴தநயா ஸுஶ்ரோணி꞉ ஸுமஹாஸநா ।
ஸாமப்ரியா நம்ரிதாங்கீ³ ஸர்வஸேவ்யா வராங்க³நா ॥ 56 ॥

க³ந்த⁴த்³வாரா து³ராத⁴ர்ஷா நித்யபுஷ்டா கரீஷிணீ ।
தே³வஜுஷ்டா(ஆ)தி³த்யவர்ணா தி³வ்யக³ந்தா⁴ ஸுஹ்ருத்தமா ॥ 57 ॥

அநந்தரூபா(அ)நந்தஸ்தா² ஸர்வதா³நந்தஸங்க³மா ।
யஜ்ஞாஶிநீ மஹாவ்ருஷ்டி꞉ ஸர்வபூஜ்யா வஷட்க்ரியா ॥ 58 ॥

யோக³ப்ரியா வியந்நாபி⁴꞉ அநந்தஶ்ரீரதீந்த்³ரியா ।
யோகி³ஸேவ்யா ஸத்யரதா யோக³மாயா புராதநீ ॥ 59 ॥

ஸர்வேஶ்வரீ ஸுதரணி꞉ ஶரண்யா த⁴ர்மதே³வதா ।
ஸுதரா ஸம்வ்ருதஜ்யோதி꞉ யோகி³நீ யோக³ஸித்³தி⁴தா³ ॥ 60 ॥

ஸ்ருஷ்டிஶக்திர்த்³யோதமாநா பூ⁴தா மங்க³ளதே³வதா ।
ஸம்ஹாரஶக்தி꞉ ப்ரப³லா நிருபாதி⁴꞉ பராவரா ॥ 61 ॥

உத்தாரிணீ தாரயந்தீ ஶாஶ்வதீ ஸமிதிஞ்ஜயா ।
மஹாஶ்ரீரஜஹத்கீர்தி꞉ யோக³ஶ்ரீ꞉ ஸித்³தி⁴ஸாத⁴நீ ॥ 62 ॥

புண்யஶ்ரீ꞉ புண்யநிலயா ப்³ரஹ்மஶ்ரீர்ப்³ராஹ்மணப்ரியா ।
ராஜஶ்ரீ ராஜகலிதா ப²லஶ்ரீ꞉ ஸ்வர்க³தா³யிநீ ॥ 63 ॥

தே³வஶ்ரீரத்³பு⁴தகதா² வேத³ஶ்ரீ꞉ ஶ்ருதிமார்கி³ணீ ।
தமோபஹா(அ)வ்யயநிதி⁴꞉ லக்ஷணா ஹ்ருத³யங்க³மா ॥ 94 ॥

ம்ருதஸஞ்ஜீவிநீ ஶுப்⁴ரா சந்த்³ரிகா ஸர்வதோமுகீ² ।
ஸர்வோத்தமா மித்ரவிந்தா³ மைதி²லீ ப்ரியத³ர்ஶநா ॥ 65 ॥

ஸத்யபா⁴மா வேத³வேத்³யா ஸீதா ப்ரணதபோஷிணீ ।
மூலப்ரக்ருதிரீஶாநா ஶிவதா³ தீ³ப்ரதீ³பிநீ ॥ 66 ॥

அபி⁴ப்ரியா ஸ்வைரவ்ருத்தி꞉ ருக்மிணீ ஸர்வஸாக்ஷிணீ ।
கா³ந்தா⁴ரிணீ பரக³திஸ்தத்த்வக³ர்பா⁴ ப⁴வாப⁴வா ॥ 67 ॥

அந்தர்வ்ருத்திர்மஹாருத்³ரா விஷ்ணுது³ர்கா³ மஹாப³லா ।
மத³யந்தீ லோகதா⁴ரிண்யத்³ருஶ்யா ஸர்வநிஷ்க்ருதி꞉ ॥ 68 ॥

தே³வஸேநா(ஆ)த்மப³லதா³ வஸுதா⁴ முக்²யமாத்ருகா ।
க்ஷீரதா⁴ரா க்⁴ருதமயீ ஜுஹ்வதீ யஜ்ஞத³க்ஷிணா ॥ 69 ॥

யோக³நித்³ரா யோக³ரதா ப்³ரஹ்மசர்யா து³ரத்யயா ।
ஸிம்ஹபிஞ்சா² மஹாது³ர்கா³ ஜயந்தீ க²ட்³க³தா⁴ரிணீ ॥ 70 ॥

ஸர்வார்திநாஶிநீ ஹ்ருஷ்டா ஸர்வேச்சா²பரிபூரிகா ।
ஆர்யா யஶோதா³ வஸுதா³ த⁴ர்மகாமார்த²மோக்ஷதா³ ॥ 71 ॥

த்ரிஶூலிநீ பத்³மசிஹ்நா மஹாகாளீந்து³மாலிநீ ।
ஏகவீரா ப⁴த்³ரகாளீ ஸ்வாநந்தி³ந்யுல்லஸத்³க³தா³ ॥ 72 ॥

நாராயணீ ஜக³த்பூரிண்யுர்வரா த்³ருஹிணப்ரஸூ꞉ ।
யஜ்ஞகாமா லேலிஹாநா தீர்த²கர்யுக்³ரவிக்ரமா ॥ 73 ॥

க³ருத்மது³த³யா(அ)த்யுக்³ரா வாராஹீ மாத்ருபா⁴ஷிணீ ।
அஶ்வக்ராந்தா ரத²க்ராந்தா விஷ்ணுக்ராந்தோருசாரிணீ ॥ 74 ॥

வைரோசநீ நாரஸிம்ஹீ ஜீமூதா ஶுப⁴தே³க்ஷணா ।
தீ³க்ஷாவிதா³ விஶ்வஶக்தி꞉ பீ³ஜஶக்தி꞉ ஸுத³ர்ஶநீ ॥ 75 ॥

ப்ரதீதா ஜக³தீ வந்யதா⁴ரிணீ கலிநாஶிநீ ।
அயோத்⁴யா(அ)ச்சி²ந்நஸந்தாநா மஹாரத்நா ஸுகா²வஹா ॥ 76 ॥

ராஜவத்யப்ரதிப⁴யா விநயித்ரீ மஹாஶநா ।
அம்ருதஸ்யந்தி³நீ ஸீமா யஜ்ஞக³ர்பா⁴ ஸமேக்ஷணா ॥ 77 ॥

ஆகூதிருக்³யஜுஸ்ஸாமகோ⁴ஷா(ஆ)ராமவநோத்ஸுகா ।
ஸோமபா மாத⁴வீ நித்யகல்யாணீ கமலார்சிதா ॥ 78 ॥

யோகா³ரூடா⁴ ஸ்வார்த²ஜுஷ்டா வஹ்நிவர்ணா ஜிதாஸுரா ।
யஜ்ஞவித்³யா கு³ஹ்யவித்³யா(அ)த்⁴யாத்மவித்³யா க்ருதாக³மா ॥ 79 ॥

ஆப்யாயநீ கலாதீதா ஸுமித்ரா பரப⁴க்திதா³ ।
காங்க்ஷமாணா மஹாமாயா கோலகாமா(அ)மராவதீ ॥ 80 ॥

ஸுவீர்யா து³꞉ஸ்வப்நஹரா தே³வகீ வஸுதே³வதா ।
ஸௌதா³மிநீ மேக⁴ரதா² தை³த்யதா³நவமர்தி³நீ ॥ 81 ॥

ஶ்ரேயஸ்கரீ சித்ரளீலைகாகிநீ ரத்நபாது³கா ।
மநஸ்யமாநா துலஸீ ரோக³நாஶிந்யுருப்ரதா³ ॥ 82 ॥

தேஜஸ்விநீ ஸுக²ஜ்வாலா மந்த³ரேகா²(அ)ம்ருதாஶிநீ ।
ப்³ரஹ்மிஷ்டா² வஹ்நிஶமநீ ஜுஷமாணா கு³ணாத்யயா ॥ 83 ॥

காத³ம்ப³ரீ ப்³ரஹ்மரதா விதா⁴த்ர்யுஜ்ஜ்வலஹஸ்திகா ।
அக்ஷோப்⁴யா ஸர்வதோப⁴த்³ரா வயஸ்யா ஸ்வஸ்தித³க்ஷிணா ॥ 84 ॥

ஸஹஸ்ராஸ்யா ஜ்ஞாநமாதா வைஶ்வாநர்யக்ஷவர்திநீ ।
ப்ரத்யக்³வரா வாரணவத்யநஸூயா து³ராஸதா³ ॥ 85 ॥

அருந்த⁴தீ குண்ட³லிநீ ப⁴வ்யா து³ர்க³திநாஶிநீ ।
ம்ருத்யுஞ்ஜயா த்ராஸஹரீ நிர்ப⁴யா ஶத்ருஸூதி³நீ ॥ 86 ॥

ஏகாக்ஷரா ஸத்புரந்த்⁴ரீ ஸுரபக்ஷா ஸுராதுலா ।
ஸக்ருத்³விபா⁴தா ஸர்வார்திஸமுத்³ரபரிஶோஷிணீ ॥ 87 ॥

பி³ல்வப்ரியா(அ)வநீ சக்ரஹ்ருத³யா கம்பு³தீர்த²கா³ ।
ஸர்வமந்த்ராத்மிகா வித்³யுத்ஸுவர்ணா ஸர்வரஞ்ஜிநீ ॥ 88 ॥

த்⁴வஜச²த்ராஶ்ரயா பூ⁴திர்வைஷ்ணவீ ஸத்³கு³ணோஜ்ஜ்வலா ।
ஸுஷேணா லோகவிதி³தா காமஸூர்ஜக³தா³தி³பூ⁴꞉ ॥ 89 ॥

வேதா³ந்தயோநிர்ஜிஜ்ஞாஸா மநீஷா ஸமத³ர்ஶிநீ ।
ஸஹஸ்ரஶக்திராவ்ருத்தி꞉ ஸுஸ்தி²ரா ஶ்ரேயஸாம் நிதி⁴꞉ ॥ 90 ॥

ரோஹிணீ ரேவதீ சந்த்³ரஸோத³ரீ ப⁴த்³ரமோஹிநீ ।
ஸூர்யா கந்யாப்ரியா விஶ்வபா⁴வநீ ஸுவிபா⁴விநீ ॥ 91 ॥

ஸுப்ரத்³ருஶ்யா காமசாரிண்யப்ரமத்தா லலந்திகா ।
மோக்ஷலக்ஷ்மீர்ஜக³த்³யோநி꞉ வ்யோமலக்ஷ்மீ꞉ ஸுது³ர்லபா⁴ ॥ 92 ॥

பா⁴ஸ்கரீ புண்யகே³ஹஸ்தா² மநோஜ்ஞா விப⁴வப்ரதா³ ।
லோகஸ்வாமிந்யச்யுதார்தா² புஷ்களா ஜக³தா³க்ருதி꞉ ॥ 93 ॥

விசித்ரஹாரிணீ காந்தா வாஹிநீ பூ⁴தவாஸிநீ ।
ப்ராணிநீ ப்ராணதா³ விஶ்வா விஶ்வப்³ரஹ்மாண்ட³வாஸிநீ ॥ 94 ॥

ஸம்பூர்ணா பரமோத்ஸாஹா ஶ்ரீமதீ ஶ்ரீபதி꞉ ஶ்ருதி꞉ ।
ஶ்ரயந்தீ ஶ்ரீயமாணா க்ஷ்மா விஶ்வரூபா ப்ரஸாதி³நீ ॥ 95 ॥

ஹர்ஷிணீ ப்ரத²மா ஶர்வா விஶாலா காமவர்ஷிணீ ।
ஸுப்ரதீகா ப்ருஶ்நிமதீ நிவ்ருத்திர்விவிதா⁴ பரா ॥ 96 ॥

ஸுயஜ்ஞா மது⁴ரா ஶ்ரீதா³ தே³வராதிர்மஹாமநா꞉ ।
ஸ்தூ²லா ஸர்வாக்ருதி꞉ ஸ்தே²மா நிம்நக³ர்பா⁴ தமோநுதா³ ॥ 97 ॥

துஷ்டிர்வாகீ³ஶ்வரீ புஷ்டி꞉ ஸர்வாதி³꞉ ஸர்வஶோஷிணீ ।
ஶக்த்யாத்மிகா ஶப்³த³ஶக்திர்விஶிஷ்டா வாயுமத்யுமா ॥ 98 ॥

ஆந்வீக்ஷிகீ த்ரயீ வார்தா த³ண்ட³நீதிர்நயாத்மிகா ।
வ்யாளீ ஸங்கர்ஷிணீ த்³யோதா மஹாதே³வ்யபராஜிதா ॥ 99 ॥

கபிலா பிங்க³ளா ஸ்வஸ்தா² ப³லாகீ கோ⁴ஷநந்தி³நீ ।
அஜிதா கர்ஷிணீ நீதிர்க³ருடா³ க³ருடா³ஸநா ॥ 100 ॥

ஹ்லாதி³ந்யநுக்³ரஹா நித்யா ப்³ரஹ்மவித்³யா ஹிரண்மயீ ।
மஹீ ஶுத்³த⁴விதா⁴ ப்ருத்²வீ ஸந்தாநிந்யம்ஶுமாலிநீ ॥ 101 ॥

யஜ்ஞாஶ்ரயா க்²யாதிபரா ஸ்தவ்யா வ்ருஷ்டிஸ்த்ரிகாலகா³ ।
ஸம்போ³தி⁴நீ ஶப்³த³புர்ணா விஜயாம்ஶுமதீ கலா ॥ 102 ॥

ஶிவா ஸ்துதிப்ரியா க்²யாதி꞉ ஜீவயந்தீ புநர்வஸு꞉ ।
தீ³க்ஷா ப⁴க்தார்திஹா ரக்ஷா பரீக்ஷா யஜ்ஞஸம்ப⁴வா ॥ 103 ॥

ஆர்த்³ரா புஷ்கரிணீ புண்யா க³ண்யா தா³ரித்³ர்யப⁴ஞ்ஜிநீ ।
த⁴ந்யா மாந்யா பத்³மநேமீ பா⁴ர்க³வீ வம்ஶவர்த⁴நீ ॥ 104 ॥

தீக்ஷ்ணப்ரவ்ருத்தி꞉ ஸத்கீர்தி꞉ நிஷேவ்யா(அ)க⁴விநாஶிநீ ।
ஸஞ்ஜ்ஞா நி꞉ஸம்ஶயா பூர்வா வநமாலா வஸுந்த⁴ரா ॥ 105 ॥

ப்ருது²ர்மஹோத்கடா(அ)ஹல்யா மண்ட³லா(ஆ)ஶ்ரிதமாநதா³ ।
ஸர்வா நித்யோதி³தோதா³ரா ஜ்ரும்ப⁴மாணா மஹோத³யா ॥ 106 ॥

சந்த்³ரகாந்தோதி³தா சந்த்³ரா சதுரஶ்ரா மநோஜவா ।
பா³லா குமாரீ யுவதி꞉ கருணா ப⁴க்தவத்ஸலா ॥ 107 ॥

மேதி³ந்யுபநிஷந்மிஶ்ரா ஸுமவீருர்த⁴நேஶ்வரீ ।
து³ர்மர்ஷணீ ஸுசரிதா போ³தா⁴ ஶோபா⁴ ஸுவர்சலா ॥ 108 ॥

யமுநா(அ)க்ஷௌஹிணீ க³ங்கா³ மந்தா³கிந்யமராளயா ।
கோ³தா³ கோ³தா³வரீ சந்த்³ரபா⁴கா³ காவேர்யுத³ந்வதீ ॥ 109 ॥

ஸிநீவாலீ குஹூ ராகா வாரணா ஸிந்து⁴மத்யமா ।
வ்ருத்³தி⁴꞉ ஸ்தி²திர்த்⁴ருவா பு³த்³தி⁴ஸ்த்ரிகு³ணா கு³ணக³ஹ்வரா ॥ 110 ॥

பூர்திர்மாயாத்மிகா ஸ்பூ²ர்திர்வ்யாக்²யா ஸூத்ரா ப்ரஜாவதீ ।
விபூ⁴திர்நிஷ்களா ரம்பா⁴ ரக்ஷா ஸுவிமலா க்ஷமா ॥ 111 ॥

ப்ராப்திர்வாஸந்திகாலேகா² பூ⁴ரிபீ³ஜா மஹாக³தா³ ।
அமோகா⁴ ஶாந்திதா³ ஸ்துத்யா ஜ்ஞாநதோ³த்கர்ஷிணீ ஶிகா² ॥ 112 ॥

ப்ரக்ருதிர்கோ³மதீ லீலா கமலா காமது⁴க்³விதி⁴꞉ ।
ப்ரஜ்ஞா ராமா பரா ஸந்த்⁴யா ஸுப⁴த்³ரா ஸர்வமங்க³ளா ॥ 113 ॥

நந்தா³ ப⁴த்³ரா ஜயா ரிக்தா திதி²பூர்ணா(அ)ம்ருதம்ப⁴ரா ।
காஷ்டா² காமேஶ்வரீ நிஷ்டா² காம்யா ரம்யா வரா ஸ்ம்ருதி꞉ ॥ 114 ॥

ஶங்கி²நீ சக்ரிணீ ஶ்யாமா ஸமா கோ³த்ரா ரமா தி³தி꞉ ।
ஶாந்திர்தா³ந்தி꞉ ஸ்துதி꞉ ஸித்³தி⁴꞉ விரஜா(அ)த்யுஜ்ஜ்வலா(அ)வ்யயா ॥ 115 ॥

வாணீ கௌ³ரீந்தி³ரா லக்ஷ்மீ꞉ மேதா⁴ ஶ்ரத்³தா⁴ ஸரஸ்வதீ ।
ஸ்வதா⁴ ஸ்வாஹா ரதிருஷா வஸுவித்³யா த்⁴ருதி꞉ ஸஹா ॥ 116 ॥

ஶிஷ்டேஷ்டா ச ஶுசிர்தா⁴த்ரீ ஸுதா⁴ ரக்ஷோக்⁴ந்யஜா(அ)ம்ருதா ।
ரத்நாவளீ பா⁴ரதீடா³ தீ⁴ரதீ⁴꞉ கேவலா(ஆ)த்மதா³ ॥ 117 ॥

யா ஸா ஶுத்³தி⁴꞉ ஸஸ்மிதா கா நீலா ராதா⁴(அ)ம்ருதோத்³ப⁴வா ।
பரது⁴ர்யாஸ்பதா³ ஹ்ரீர்பூ⁴꞉ காமிநீ ஶோகநாஶிநீ ॥ 118 ॥

மாயாக்ருதீ ரஸக⁴நா நர்மதா³ கோ³குலாஶ்ரயா ।
அர்கப்ரபா⁴ ரதே²பா⁴ஶ்வநிலயேந்து³ப்ரபா⁴(அ)த்³பு⁴தா ॥ 119 ॥

ஶ்ரீ꞉ க்ருஶாநுப்ரபா⁴ வஜ்ரளம்ப⁴நா ஸர்வபூ⁴மிதா³ ।
போ⁴க³ப்ரியா போ⁴க³வதீ போ⁴கீ³ந்த்³ரஶயநாஸநா ॥ 120 ॥

அஶ்வபூர்வா ரத²மத்⁴யா ஹஸ்திநாத³ப்ரபோ³தி⁴நீ ।
ஸர்வலக்ஷணலக்ஷண்யா ஸர்வலோகப்ரியங்கரீ ॥ 121 ॥

ஸர்வோத்க்ருஷ்டா ஸர்வமயீ ப⁴வப⁴ங்கா³பஹாரிணீ ।
வேதா³ந்தஸ்தா² ப்³ரஹ்மநீதி꞉ ஜ்யோதிஷ்மத்யம்ருதாவஹா ॥ 122 ॥

பூ⁴தாஶ்ரயா நிராதா⁴ரா ஸம்ஹிதா ஸுகு³ணோத்தரா ।
ஸர்வாதிஶாயிநீ ப்ரீதி꞉ ஸர்வபூ⁴தஸ்தி²தா த்³விஜா ।
ஸர்வமங்க³ளமாங்க³ல்யா த்³ருஷ்டாத்³ருஷ்டப²லப்ரதா³ ॥ 123 ॥

இதி ஶ்ரீ மஹாலக்ஷ்மீ ஸஹஸ்ரநாம ஸ்தோத்ரம் ।


Mahalakshmi Sahasranamavali in Telugu (శశ్రీ మహాలక్ష్మీ సహస్రనామ )


అస్య శ్రీమహాలక్ష్మీ సహస్రనామస్తోత్ర మహామంత్రస్య శ్రీమహావిష్ణుర్భగవాన్ ఋషిః అనుష్టుప్ఛందః శ్రీమహాలక్ష్మీర్దేవతా శ్రీం బీజం హ్రీం శక్తిః హ్రైం కీలకం శ్రీమహాలక్ష్మీప్రసాదసిద్ధ్యర్థే జపే వినియోగః ||


ధ్యానం


పద్మాననే పద్మకరే సర్వలోకైకపూజితే |
సాన్నిధ్యం కురు మే చిత్తే విష్ణువక్షఃస్థలస్థితే || ౧ ||

భగవద్దక్షిణే పార్శ్వే శ్రియం దేవీమవస్థితామ్ |
ఈశ్వరీం సర్వభూతానాం జననీం సర్వదేహినామ్ || ౨ ||

చారుస్మితాం చారుదతీం చారునేత్రాననభ్రువమ్ |
సుకపోలాం సుకర్ణాగ్రన్యస్తమౌక్తికకుండలామ్ || ౩ ||

సుకేశాం చారుబింబోష్ఠీం రత్నతుంగఘనస్తనీమ్ |
అలకాగ్రైరలినిభైరలంకృతముఖాంబుజామ్ || ౪ ||

లసత్కనకసంకాశాం పీనసుందరకంధరామ్ |
నిష్కకంఠీం స్తనాలంబిముక్తాహారవిరాజితామ్ || ౫ ||

నీలకుంతలమధ్యస్థమాణిక్యమకుటోజ్జ్వలామ్ |
శుక్లమాల్యాంబరధరాం తప్తహాటకవర్ణినీమ్ || ౬ ||

అనన్యసులభైస్తైస్తైర్గుణైః సౌమ్యముఖైర్నిజైః |
అనురూపానవద్యాంగీం హరేర్నిత్యానపాయినీమ్ || ౭ ||

అథ శ్రీ మహాలక్ష్మీ సహస్రనామ స్తోత్రం
శ్రీర్వాసుదేవమహిషీ పుంప్రధానేశ్వరేశ్వరీ |
అచింత్యానంతవిభవా భావాభావవిభావినీ || ౧ ||

అహంభావాత్మికా పద్మా శాంతానంతచిదాత్మికా |
బ్రహ్మభావం గతా త్యక్తభేదా సర్వజగన్మయీ || ౨ ||

షాడ్గుణ్యపూర్ణా త్రయ్యంతరూపాఽఽత్మానపగామినీ |
ఏకయోగ్యాఽశూన్యభావాకృతిస్తేజః ప్రభావినీ || ౩ ||

భావ్యభావకభావాఽఽత్మభావ్యా కామధుగాఽఽత్మభూః |
భావాభావమయీ దివ్యా భేద్యభేదకభావనీ || ౪ ||

జగత్కుటుంబిన్యఖిలాధారా కామవిజృంభిణీ |
పంచకృత్యకరీ పంచశక్తిమయ్యాత్మవల్లభా || ౫ ||

భావాభావానుగా సర్వసమ్మతాఽఽత్మోపగూహినీ |
అపృథక్చారిణీ సౌమ్యా సౌమ్యరూపవ్యవస్థితా || ౬ ||

ఆద్యంతరహితా దేవీ భవభావ్యస్వరూపిణీ |
మహావిభూతిః సమతాం గతా జ్యోతిర్గణేశ్వరీ || ౭ ||

సర్వకార్యకరీ ధర్మస్వభావాత్మాఽగ్రతః స్థితా |
ఆజ్ఞాసమవిభక్తాంగీ జ్ఞానానందక్రియామయీ || ౮ ||

స్వాతంత్ర్యరూపా దేవోరఃస్థితా తద్ధర్మధర్మిణీ |
సర్వభూతేశ్వరీ సర్వభూతమాతాఽఽత్మమోహినీ || ౯ ||

సర్వాంగసుందరీ సర్వవ్యాపినీ ప్రాప్తయోగినీ |
విముక్తిదాయినీ భక్తిగమ్యా సంసారతారిణీ || ౧౦ ||

ధర్మార్థసాధినీ వ్యోమనిలయా వ్యోమవిగ్రహా |
పంచవ్యోమపదీ రక్షవ్యావృతిః ప్రాప్యపూరిణీ || ౧౧ ||

ఆనందరూపా సర్వాప్తిశాలినీ శక్తినాయికా |
హిరణ్యవర్ణా హైరణ్యప్రాకారా హేమమాలినీ || ౧౨ ||

ప్రస్ఫురత్తా భద్రహోమా వేశినీ రజతస్రజా |
స్వాజ్ఞాకార్యమరా నిత్యసురభిర్వ్యోమచారిణీ || ౧౩ ||

యోగక్షేమవహా సర్వసులభేచ్ఛాక్రియాత్మికా |
కరుణాగ్రానతముఖీ కమలాక్షీ శశిప్రభా || ౧౪ ||

కల్యాణదాయినీ కల్యా కలికల్మషనాశినీ |
ప్రజ్ఞాపరిమితాఽఽత్మానురూపా సత్యోపయాచితా || ౧౫ ||

మనోజ్ఞేయా జ్ఞానగమ్యా నిత్యముక్తాత్మసేవినీ |
కర్తృశక్తిః సుగహనా భోక్తృశక్తిర్గుణప్రియా || ౧౬ ||

జ్ఞానశక్తిరనౌపమ్యా నిర్వికల్పా నిరామయా |
అకలంకాఽమృతాధారా మహాశక్తిర్వికాసినీ || ౧౭ ||

మహామాయా మహానందా నిఃసంకల్పా నిరామయా |
ఏకస్వరూపా త్రివిధా సంఖ్యాతీతా నిరంజనా || ౧౮ ||

ఆత్మసత్తా నిత్యశుచిః పరశక్తిః సుఖోచితా |
నిత్యశాంతా నిస్తరంగా నిర్భిన్నా సర్వభేదినీ || ౧౯ ||

అసంకీర్ణాఽవిధేయాత్మా నిషేవ్యా సర్వపాలినీ |
నిష్కామనా సర్వరసాఽభేద్యా సర్వార్థ సాధినీ || ౨౦ ||

అనిర్దేశ్యాఽపరిమితా నిర్వికారా త్రిలక్షణా |
భయంకరీ సిద్ధిరూపాఽవ్యక్తా సదసదాకృతిః || ౨౧ ||

అప్రతర్క్యాఽప్రతిహతా నియంత్రీ యంత్రవాహినీ |
హార్దమూర్తిర్మహామూర్తిరవ్యక్తా విశ్వగోపినీ || ౨౨ ||

వర్ధమానాఽనవద్యాంగీ నిరవద్యా త్రివర్గదా |
అప్రమేయాఽక్రియా సూక్ష్మా పరనిర్వాణదాయినీ || ౨౩ ||

అవిగీతా తంత్రసిద్ధా యోగసిద్ధాఽమరేశ్వరీ |
విశ్వసూతిస్తర్పయంతీ నిత్యతృప్తా మహౌషధిః || ౨౪ ||

శబ్దాహ్వయా శబ్దసహా కృతజ్ఞా కృతలక్షణా |
త్రివర్తినీ త్రిలోకస్థా భూర్భువఃస్వరయోనిజా || ౨౫ ||

అగ్రాహ్యాఽగ్రాహికాఽనంతాహ్వయా సర్వాతిశాయినీ |
వ్యోమపద్మా కృతధురా పూర్ణకామా మహేశ్వరీ || ౨౬ ||

సువాచ్యా వాచికా సత్యకథనా సర్వపాలినీ |
లక్ష్యమాణా లక్షయంతీ జగజ్జ్యేష్ఠా శుభావహా || ౨౭ ||

జగత్ప్రతిష్ఠా భువనభర్త్రీ గూఢప్రభావతీ |
క్రియాయోగాత్మికా మూర్తిః హృదబ్జస్థా మహాక్రమా || ౨౮ ||

పరమద్యౌః ప్రథమజా పరమాప్తా జగన్నిధిః |
ఆత్మానపాయినీ తుల్యస్వరూపా సమలక్షణా || ౨౯ ||

తుల్యవృత్తా సమవయా మోదమానా ఖగధ్వజా |
ప్రియచేష్టా తుల్యశీలా వరదా కామరూపిణీ || ౩౦ ||

సమగ్రలక్షణాఽనంతా తుల్యభూతిః సనాతనీ |
మహర్ధిః సత్యసంకల్పా బహ్వృచా పరమేశ్వరీ || ౩౧ ||

జగన్మాతా సూత్రవతీ భూతధాత్రీ యశస్వినీ |
మహాభిలాషా సావిత్రీ ప్రధానా సర్వభాసినీ || ౩౨ ||

నానావపుర్బహుభిదా సర్వజ్ఞా పుణ్యకీర్తనా |
భూతాశ్రయా హృషీకేశ్వర్యశోకా వాజివాహికా || ౩౩ ||

బ్రహ్మాత్మికా పుణ్యజనిః సత్యకామా సమాధిభూః |
హిరణ్యగర్భా గంభీరా గోధూలిః కమలాసనా || ౩౪ ||

జితక్రోధా కుముదినీ వైజయంతీ మనోజవా |
ధనలక్ష్మీః స్వస్తికరీ రాజ్యలక్ష్మీర్మహాసతీ || ౩౫ ||

జయలక్ష్మీర్మహాగోష్ఠీ మఘోనీ మాధవప్రియా |
పద్మగర్భా వేదవతీ వివిక్తా పరమేష్ఠినీ || ౩౬ ||

సువర్ణబిందుర్మహతీ మహాయోగిప్రియాఽనఘా |
పద్మేస్థితా వేదమయీ కుముదా జయవాహినీ || ౩౭ ||

సంహతిర్నిర్మితా జ్యోతిః నియతిర్వివిధోత్సవా |
రుద్రవంద్యా సింధుమతీ వేదమాతా మధువ్రతా || ౩౮ ||

విశ్వంభరా హైమవతీ సముద్రేచ్ఛావిహారిణీ |
అనుకూలా యజ్ఞవతీ శతకోటిః సుపేశలా || ౩౯ ||

ధర్మోదయా ధర్మసేవ్యా సుకుమారీ సభావతీ |
భీమా బ్రహ్మస్తుతా మధ్యప్రభా దేవర్షివందితా || ౪౦ ||

దేవభోగ్యా మహాభాగా ప్రతిజ్ఞా పూర్ణశేవధిః |
సువర్ణరుచిరప్రఖ్యా భోగినీ భోగదాయినీ || ౪౧ ||

వసుప్రదోత్తమవధూః గాయత్రీ కమలోద్భవా |
విద్వత్ప్రియా పద్మచిహ్నా వరిష్ఠా కమలేక్షణా || ౪౨ ||

పద్మప్రియా సుప్రసన్నా ప్రమోదా ప్రియపార్శ్వగా |
విశ్వభూషా కాంతిమతీ కృష్ణా వీణారవోత్సుకా || ౪౩ ||

రోచిష్కరీ స్వప్రకాశా శోభమానవిహంగమా |
దేవాంకస్థా పరిణతిః కామవత్సా మహామతిః || ౪౪ ||

ఇల్వలోత్పలనాభాఽధిశమనీ వరవర్ణినీ |
స్వనిష్ఠా పద్మనిలయా సద్గతిః పద్మగంధినీ || ౪౫ ||

పద్మవర్ణా కామయోనిః చండికా చారుకోపనా |
రతిస్నుషా పద్మధరా పూజ్యా త్రైలోక్యమోహినీ || ౪౬ ||

నిత్యకన్యా బిందుమాలిన్యక్షయా సర్వమాతృకా |
గంధాత్మికా సురసికా దీప్తమూర్తిః సుమధ్యమా || ౪౭ ||

పృథుశ్రోణీ సౌమ్యముఖీ సుభగా విష్టరశ్రుతిః |
స్మితాననా చారుదతీ నిమ్ననాభిర్మహాస్తనీ || ౪౮ ||

స్నిగ్ధవేణీ భగవతీ సుకాంతా వామలోచనా |
పల్లవాంఘ్రిః పద్మమనాః పద్మబోధా మహాప్సరాః || ౪౯ ||

విద్వత్ప్రియా చారుహాసా శుభదృష్టిః కకుద్మినీ |
కంబుగ్రీవా సుజఘనా రక్తపాణిర్మనోరమా || ౫౦ ||

పద్మినీ మందగమనా చతుర్దంష్ట్రా చతుర్భుజా |
శుభరేఖా విలాసభ్రూః శుకవాణీ కలావతీ || ౫౧ ||

ఋజునాసా కలరవా వరారోహా తలోదరీ |
సంధ్యా బింబాధరా పూర్వభాషిణీ స్త్రీసమాహ్వయా || ౫౨ ||

ఇక్షుచాపా సుమశరా దివ్యభూషా మనోహరా |
వాసవీ పాండరచ్ఛత్రా కరభోరుస్తిలోత్తమా || ౫౩ ||

సీమంతినీ ప్రాణశక్తిర్విభీషణ్యసుధారిణీ |
భద్రా జయావహా చంద్రవదనా కుటిలాలకా || ౫౪ ||

చిత్రాంబరా చిత్రగంధా రత్నమౌలిసముజ్జ్వలా |
దివ్యాయుధా దివ్యమాల్యా విశాఖా చిత్రవాహనా || ౫౫ ||

అంబికా సింధుతనయా సుశ్రోణిః సుమహాసనా |
సామప్రియా నమ్రితాంగీ సర్వసేవ్యా వరాంగనా || ౫౬ ||

గంధద్వారా దురాధర్షా నిత్యపుష్టా కరీషిణీ |
దేవజుష్టాఽఽదిత్యవర్ణా దివ్యగంధా సుహృత్తమా || ౫౭ ||

అనంతరూపాఽనంతస్థా సర్వదానంతసంగమా |
యజ్ఞాశినీ మహావృష్టిః సర్వపూజ్యా వషట్క్రియా || ౫౮ ||

యోగప్రియా వియన్నాభిః అనంతశ్రీరతీంద్రియా |
యోగిసేవ్యా సత్యరతా యోగమాయా పురాతనీ || ౫౯ ||

సర్వేశ్వరీ సుతరణిః శరణ్యా ధర్మదేవతా |
సుతరా సంవృతజ్యోతిః యోగినీ యోగసిద్ధిదా || ౬౦ ||

సృష్టిశక్తిర్ద్యోతమానా భూతా మంగళదేవతా |
సంహారశక్తిః ప్రబలా నిరుపాధిః పరావరా || ౬౧ ||

ఉత్తారిణీ తారయంతీ శాశ్వతీ సమితింజయా |
మహాశ్రీరజహత్కీర్తిః యోగశ్రీః సిద్ధిసాధనీ || ౬౨ ||

పుణ్యశ్రీః పుణ్యనిలయా బ్రహ్మశ్రీర్బ్రాహ్మణప్రియా |
రాజశ్రీ రాజకలితా ఫలశ్రీః స్వర్గదాయినీ || ౬౩ ||

దేవశ్రీరద్భుతకథా వేదశ్రీః శ్రుతిమార్గిణీ |
తమోపహాఽవ్యయనిధిః లక్షణా హృదయంగమా || ౯౪ ||

మృతసంజీవినీ శుభ్రా చంద్రికా సర్వతోముఖీ |
సర్వోత్తమా మిత్రవిందా మైథిలీ ప్రియదర్శనా || ౬౫ ||

సత్యభామా వేదవేద్యా సీతా ప్రణతపోషిణీ |
మూలప్రకృతిరీశానా శివదా దీప్రదీపినీ || ౬౬ ||

అభిప్రియా స్వైరవృత్తిః రుక్మిణీ సర్వసాక్షిణీ |
గాంధారిణీ పరగతిస్తత్త్వగర్భా భవాభవా || ౬౭ ||

అంతర్వృత్తిర్మహారుద్రా విష్ణుదుర్గా మహాబలా |
మదయంతీ లోకధారిణ్యదృశ్యా సర్వనిష్కృతిః || ౬౮ ||

దేవసేనాఽఽత్మబలదా వసుధా ముఖ్యమాతృకా |
క్షీరధారా ఘృతమయీ జుహ్వతీ యజ్ఞదక్షిణా || ౬౯ ||

యోగనిద్రా యోగరతా బ్రహ్మచర్యా దురత్యయా |
సింహపింఛా మహాదుర్గా జయంతీ ఖడ్గధారిణీ || ౭౦ ||

సర్వార్తినాశినీ హృష్టా సర్వేచ్ఛాపరిపూరికా |
ఆర్యా యశోదా వసుదా ధర్మకామార్థమోక్షదా || ౭౧ ||

త్రిశూలినీ పద్మచిహ్నా మహాకాలీందుమాలినీ |
ఏకవీరా భద్రకాలీ స్వానందిన్యుల్లసద్గదా || ౭౨ ||

నారాయణీ జగత్పూరిణ్యుర్వరా ద్రుహిణప్రసూః |
యజ్ఞకామా లేలిహానా తీర్థకర్యుగ్రవిక్రమా || ౭౩ ||

గరుత్మదుదయాఽత్యుగ్రా వారాహీ మాతృభాషిణీ |
అశ్వక్రాంతా రథక్రాంతా విష్ణుక్రాంతోరుచారిణీ || ౭౪ ||

వైరోచనీ నారసింహీ జీమూతా శుభదేక్షణా |
దీక్షావిదా విశ్వశక్తిః బీజశక్తిః సుదర్శనీ || ౭౫ ||

ప్రతీతా జగతీ వన్యధారిణీ కలినాశినీ |
అయోధ్యాఽచ్ఛిన్నసంతానా మహారత్నా సుఖావహా || ౭౬ ||

రాజవత్యప్రతిభయా వినయిత్రీ మహాశనా |
అమృతస్యందినీ సీమా యజ్ఞగర్భా సమేక్షణా || ౭౭ ||

ఆకూతిఋగ్యజుస్సామఘోషాఽఽరామవనోత్సుకా |
సోమపా మాధవీ నిత్యకల్యాణీ కమలార్చితా || ౭౮ ||

యోగారూఢా స్వార్థజుష్టా వహ్నివర్ణా జితాసురా |
యజ్ఞవిద్యా గుహ్యవిద్యాఽధ్యాత్మవిద్యా కృతాగమా || ౭౯ ||

ఆప్యాయనీ కలాతీతా సుమిత్రా పరభక్తిదా |
కాంక్షమాణా మహామాయా కోలకామాఽమరావతీ || ౮౦ ||

సువీర్యా దుఃస్వప్నహరా దేవకీ వసుదేవతా |
సౌదామినీ మేఘరథా దైత్యదానవమర్దినీ || ౮౧ ||

శ్రేయస్కరీ చిత్రలీలైకాకినీ రత్నపాదుకా |
మనస్యమానా తులసీ రోగనాశిన్యురుప్రదా || ౮౨ ||

తేజస్వినీ సుఖజ్వాలా మందరేఖాఽమృతాశినీ |
బ్రహ్మిష్ఠా వహ్నిశమనీ జుషమాణా గుణాత్యయా || ౮౩ ||

కాదంబరీ బ్రహ్మరతా విధాత్ర్యుజ్జ్వలహస్తికా |
అక్షోభ్యా సర్వతోభద్రా వయస్యా స్వస్తిదక్షిణా || ౮౪ ||

సహస్రాస్యా జ్ఞానమాతా వైశ్వానర్యక్షవర్తినీ |
ప్రత్యగ్వరా వారణవత్యనసూయా దురాసదా || ౮౫ ||

అరుంధతీ కుండలినీ భవ్యా దుర్గతినాశినీ |
మృత్యుంజయా త్రాసహరీ నిర్భయా శత్రుసూదినీ || ౮౬ ||

ఏకాక్షరా సత్పురంధ్రీ సురపక్షా సురాతులా |
సకృద్విభాతా సర్వార్తిసముద్రపరిశోషిణీ || ౮౭ ||

బిల్వప్రియాఽవనీ చక్రహృదయా కంబుతీర్థగా |
సర్వమంత్రాత్మికా విద్యుత్సువర్ణా సర్వరంజినీ || ౮౮ ||

ధ్వజఛత్రాశ్రయా భూతిర్వైష్ణవీ సద్గుణోజ్జ్వలా |
సుషేణా లోకవిదితా కామసూర్జగదాదిభూః || ౮౯ ||

వేదాంతయోనిర్జిజ్ఞాసా మనీషా సమదర్శినీ |
సహస్రశక్తిరావృత్తిః సుస్థిరా శ్రేయసాం నిధిః || ౯౦ ||

రోహిణీ రేవతీ చంద్రసోదరీ భద్రమోహినీ |
సూర్యా కన్యాప్రియా విశ్వభావనీ సువిభావినీ || ౯౧ ||

సుప్రదృశ్యా కామచారిణ్యప్రమత్తా లలంతికా |
మోక్షలక్ష్మీర్జగద్యోనిః వ్యోమలక్ష్మీః సుదుర్లభా || ౯౨ ||

భాస్కరీ పుణ్యగేహస్థా మనోజ్ఞా విభవప్రదా |
లోకస్వామిన్యచ్యుతార్థా పుష్కలా జగదాకృతిః || ౯౩ ||

విచిత్రహారిణీ కాంతా వాహినీ భూతవాసినీ |
ప్రాణినీ ప్రాణదా విశ్వా విశ్వబ్రహ్మాండవాసినీ || ౯౪ ||

సంపూర్ణా పరమోత్సాహా శ్రీమతీ శ్రీపతిః శ్రుతిః |
శ్రయంతీ శ్రీయమాణా క్ష్మా విశ్వరూపా ప్రసాదినీ || ౯౫ ||

హర్షిణీ ప్రథమా శర్వా విశాలా కామవర్షిణీ |
సుప్రతీకా పృశ్నిమతీ నివృత్తిర్వివిధా పరా || ౯౬ ||

సుయజ్ఞా మధురా శ్రీదా దేవరాతిర్మహామనాః |
స్థూలా సర్వాకృతిః స్థేమా నిమ్నగర్భా తమోనుదా || ౯౭ ||

తుష్టిర్వాగీశ్వరీ పుష్టిః సర్వాదిః సర్వశోషిణీ |
శక్త్యాత్మికా శబ్దశక్తిర్విశిష్టా వాయుమత్యుమా || ౯౮ ||

ఆన్వీక్షికీ త్రయీ వార్తా దండనీతిర్నయాత్మికా |
వ్యాలీ సంకర్షిణీ ద్యోతా మహాదేవ్యపరాజితా || ౯౯ ||

కపిలా పింగళా స్వస్థా బలాకీ ఘోషనందినీ |
అజితా కర్షిణీ నీతిర్గరుడా గరుడాసనా || ౧౦౦ ||

హ్లాదిన్యనుగ్రహా నిత్యా బ్రహ్మవిద్యా హిరణ్మయీ |
మహీ శుద్ధవిధా పృథ్వీ సంతానిన్యంశుమాలినీ || ౧౦౧ ||

యజ్ఞాశ్రయా ఖ్యాతిపరా స్తవ్యా వృష్టిస్త్రికాలగా |
సంబోధినీ శబ్దపుర్ణా విజయాంశుమతీ కలా || ౧౦౨ ||

శివా స్తుతిప్రియా ఖ్యాతిః జీవయంతీ పునర్వసుః |
దీక్షా భక్తార్తిహా రక్షా పరీక్షా యజ్ఞసంభవా || ౧౦౩ ||

ఆర్ద్రా పుష్కరిణీ పుణ్యా గణ్యా దారిద్ర్యభంజినీ |
ధన్యా మాన్యా పద్మనేమీ భార్గవీ వంశవర్ధనీ || ౧౦౪ ||

తీక్ష్ణప్రవృత్తిః సత్కీర్తిః నిషేవ్యాఽఘవినాశినీ |
సంజ్ఞా నిఃసంశయా పూర్వా వనమాలా వసుంధరా || ౧౦౫ ||

పృథుర్మహోత్కటాఽహల్యా మండలాఽఽశ్రితమానదా |
సర్వా నిత్యోదితోదారా జృంభమాణా మహోదయా || ౧౦౬ ||

చంద్రకాంతోదితా చంద్రా చతురశ్రా మనోజవా |
బాలా కుమారీ యువతిః కరుణా భక్తవత్సలా || ౧౦౭ ||

మేదిన్యుపనిషన్మిశ్రా సుమవీరుర్ధనేశ్వరీ |
దుర్మర్షణీ సుచరితా బోధా శోభా సువర్చలా || ౧౦౮ ||

యమునాఽక్షౌహిణీ గంగా మందాకిన్యమరాలయా |
గోదా గోదావరీ చంద్రభాగా కావేర్యుదన్వతీ || ౧౦౯ ||

సినీవాలీ కుహూ రాకా వారణా సింధుమత్యమా |
వృద్ధిః స్థితిర్ధ్రువా బుద్ధిస్త్రిగుణా గుణగహ్వరా || ౧౧౦ ||

పూర్తిర్మాయాత్మికా స్ఫూర్తిర్వ్యాఖ్యా సూత్రా ప్రజావతీ |
విభూతిర్నిష్కలా రంభా రక్షా సువిమలా క్షమా || ౧౧౧ ||

ప్రాప్తిర్వాసంతికాలేఖా భూరిబీజా మహాగదా |
అమోఘా శాంతిదా స్తుత్యా జ్ఞానదోత్కర్షిణీ శిఖా || ౧౧౨ ||

ప్రకృతిర్గోమతీ లీలా కమలా కామధుగ్విధిః |
ప్రజ్ఞా రామా పరా సంధ్యా సుభద్రా సర్వమంగళా || ౧౧౩ ||

నందా భద్రా జయా రిక్తా తిథిపూర్ణాఽమృతంభరా |
కాష్ఠా కామేశ్వరీ నిష్ఠా కామ్యా రమ్యా వరా స్మృతిః || ౧౧౪ ||

శంఖినీ చక్రిణీ శ్యామా సమా గోత్రా రమా దితిః |
శాంతిర్దాంతిః స్తుతిః సిద్ధిః విరజాఽత్యుజ్జ్వలాఽవ్యయా || ౧౧౫ ||

వాణీ గౌరీందిరా లక్ష్మీః మేధా శ్రద్ధా సరస్వతీ |
స్వధా స్వాహా రతిరుషా వసువిద్యా ధృతిః సహా || ౧౧౬ ||

శిష్టేష్టా చ శుచిర్ధాత్రీ సుధా రక్షోఘ్న్యజాఽమృతా |
రత్నావలీ భారతీడా ధీరధీః కేవలాఽఽత్మదా || ౧౧౭ ||

యా సా శుద్ధిః సస్మితా కా నీలా రాధాఽమృతోద్భవా |
పరధుర్యాస్పదా హ్రీర్భూః కామినీ శోకనాశినీ || ౧౧౮ ||

మాయాకృతీ రసఘనా నర్మదా గోకులాశ్రయా |
అర్కప్రభా రథేభాశ్వనిలయేందుప్రభాఽద్భుతా || ౧౧౯ ||

శ్రీః కృశానుప్రభా వజ్రలంభనా సర్వభూమిదా |
భోగప్రియా భోగవతీ భోగీంద్రశయనాసనా || ౧౨౦ ||

అశ్వపూర్వా రథమధ్యా హస్తినాదప్రబోధినీ |
సర్వలక్షణలక్షణ్యా సర్వలోకప్రియంకరీ || ౧౨౧ ||

సర్వోత్కృష్టా సర్వమయీ భవభంగాపహారిణీ |
వేదాంతస్థా బ్రహ్మనీతిః జ్యోతిష్మత్యమృతావహా || ౧౨౨ ||

భూతాశ్రయా నిరాధారా సంహితా సుగుణోత్తరా |
సర్వాతిశాయినీ ప్రీతిః సర్వభూతస్థితా ద్విజా |
సర్వమంగళమాంగళ్యా దృష్టాదృష్టఫలప్రదా || ౧౨౩ ||

ఇతి శ్రీ మహాలక్ష్మీ సహస్రనామ స్తోత్రం |


Download Mahalakshmi Sahasranamavali



  1. Slot Online
  2. rtp yang tepat
  3. Slot Gacor
  4. Situs Judi Slot Online Gacor
  5. Situs Judi Slot Online
  6. Situs Slot Gacor 2023 Terpercaya
  7. SLOT88
  8. Situs Judi Slot Online Gampang Menang
  9. Judi Slot Online Jackpot Terbesar
  10. Slot Gacor 88
  11. rtp Slot Terpercaya
  12. judi bola online
  13. Situs Judi Slot Online Terbaru 2023
  14. Situs Judi Slot Online Terpercaya 2023 Mudah Menang
  15. Daftar Situs Judi Slot Online Gacor Terbaik
  16. Slot Deposit Pulsa Tanpa Potongan
  17. Situs Judi Slot Online Resmi
  18. Slot dana gacor
  19. Situs Slot Gacor 2023
  20. rtp slot yang tepat
  21. slot gacor yang tepat
  22. slot dana
  23. harum4d slot